दुर्योधनः-
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
इदं वचनमक्लीबमब्रवीत्परवीरहा
अर्जुनः-
भ्रातॄनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम
अनर्हं धर्षणा हीदं जीवमानेषु पाण्डुषु
दुर्योधनः-
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः
स्थितो राज्ये च्युतान्स्थानाच्छ्रिया हीनाञ्श्रिया वृतः।
द्रष्टा च निस्सुखान्वीरान्सदारान्पाण्डवानिति
अस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथ
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः
युधिष्ठिरमथागम्य गन्धर्वास्सह पाण्डवैः
अस्मद्दुर्मन्त्रितं तस्मै बद्ध्वा चास्मान्न्यवेदयन्
स्त्रीसमक्षमहं दीनो बद्धश्शत्रुवशं गतः
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्
ये मे निराकृता नित्यं रिपुर्येषामहं सदा
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे
प्राप्तव्यं यद्यहं वीर वधं तस्मिन्महारणे
श्रेयस्तद्भविता मह्यं नैवम्भूतस्य जीवितम्
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्
प्राप्ताश्च लोकाः पुण्या मे महेन्द्रसदनेऽक्षयाः
यन्मे व्यवसितं किञ्चित्तच्छृणुष्व नराधिप
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
दुश्शासनं पुरस्कृत्य प्रयान्तु नगरं प्रति
न ह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहो भूत्वा सुहृदां मानवर्धनः॥
कारणैरस्म्यभिहितश्शत्रुभिर्वै विमानितः
स सुहृच्छोकसन्तप्तश्शत्रूणां हर्षवर्धनः
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्
भीष्मो द्रोणः कृपो द्रौणिर्विदुरस्सञ्जयस्तथा
बाह्लीकस्सौमदत्तिश्च ये चान्ये वृद्धसम्मताः
ब्राह्मणाश्श्रेणिमुख्याश्च तथोदासीनवृत्तयः
किं नु वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम्
दुर्विनीताश्श्रियं प्राप्य विद्यामैश्वर्यमेव च
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः
अहो बत यथैतन्मे कष्टं दुश्चरितं कृतम्
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः