दुर्योधनः-
अजानतस्ते राधेय नाभ्यसूयामि ते वचः
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया
आयोधितास्तु गन्धर्वास्सुचिरं सोदरैर्मम
मया सह महाबाहो कृतश्चोभयतः क्षयः
माया दूरात्तु युध्यन्तो यदा शूरा वियद्गताः
तदा नो न समं युद्धमभवत्सह खेचरैः
पराजयं च प्राप्तास्स्मो रणे बन्धनमेव च
सभृत्यामात्यपुत्राश्च सदारधनबाम्धवाः
उच्चैराकाशमार्गेण प्रणीतास्ते सुदुःखिताः
सैनिकामात्याः-
अथ नस्सैनिकाः केचिदमात्याश्च महारथाः
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान्
एष दुर्योधनो राजा धार्तराष्ट्रस्सहानुजः
सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः
तं मोक्षयत भद्रं वस्सहदारं नराधिपम्
परामर्शो नाभविष्यत्कुरुदारेषु सर्वथा
दुर्योधनः-
एवमुक्तस्स धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः
साम्ना पूर्वमयाचन्त मुक्तास्सन्तो महारथाः
यदा चास्मान्न मुमुचुर्गन्धर्वास्सान्त्विताश्च ते
आकाशचारिणो वीरा नदन्तो जलदा इव
ततोऽर्जुनश्च भीमश्च यमौ च बलोत्कटौ
मुमुचुश्शरवर्षाणि गन्धर्वान्प्रत्यनेकशः
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्
अस्मानेवाभिवीक्षन्तो दीनान्मुदितमानसाः
ततस्समन्तात्पश्यामि शरजालेन वेष्टितम्
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम्
समावृता दिशो दृष्ट्वा पाण्डवेन शितैश्शरैः
धनञ्जयसखाऽऽत्मानं दर्शयामास वै तदा
चित्रसेनः पाण्डवेन समाश्लिष्टः परन्तपः
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्
ते समेत्य तथान्यायं सन्नाहान्विप्रमुच्य च
एकीभूतास्ततस्सर्वे गन्धर्वास्सह पाण्डवैः
परस्परं समागम्य प्रीत्या परमया युताः’
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ