जनमेजयः-
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः
मोक्षितस्य कथं चासीन्मनस्तस्य दुरात्मनः
कथं तस्यावलिप्तस्य गर्वितस्य च नित्यशः
कथं च पौरुषौदार्यान्पाण्डवानवमन्यतः
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय
वैशम्पायनः-
धर्मराजेन मुक्तस्तु धार्तराष्ट्रस्सुयोधनः
लज्जयाऽधोमुखस्सीदन्नुपासर्पत दुःखितः
स्वपुरं प्रययौ राजा चतुरङ्गबलान्वितः
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम्
विमुच्य पथि यानानि देशे सुयवसोदके
सन्निविष्टे शुभे रम्ये भूमिभागे यथेप्सितम्
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत्
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये
उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा
कर्णः-
दिष्ट्या जीवसि गान्धारे दिष्ट्या नस्सङ्गमः पुनः
दिष्ट्या त्वया जितास्सङ्ख्ये गन्धर्वाः कामरूपिणः
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन
विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान्
अहं त्वभिद्रुतस्सर्वैर्गन्धर्वैः पश्यतस्तव
नाशक्नुवं स्थापयितुं पीड्यमानस्स्ववाहिनीम्
शरक्षतोऽहं च भृशं व्यपयातो निपीडितः
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत
अरिष्टानक्षतांश्चापि सदाररथवाहनान्
विमुक्तान्सम्प्रपश्यामि सर्वान्युद्धादमानुषात्
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत
यत्कृतं ते महाराज सह भ्रातृभिराहवे
वैशम्पायनः-
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
उवाच वचनं राजन्बाष्पगद्गदया गिरा