वैशम्पायनः-
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे
किमर्थं च सदारोऽयं निगृहीतस्सुयोधनः
चित्रसेनः-
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः
इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनञ्जय
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हतः
इमे वञ्चयितुं प्राप्ता द्रौपदीं च यशस्विनीम्
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुराधिपः
इन्द्रः-
गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय
धनञ्जयश्च ते रक्ष्यस्सह भ्रातृभिराहवे
स हि प्रियसखा तुभ्यं शिष्यश्च सहबान्धवः
चित्रसेनः-
वचनाद्देवराजस्य ततो ह्यभ्यागतो द्रुतम्
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्
अर्जुन उवाच
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः
धर्मराजस्य सन्देशं मम चेदिच्छसि प्रियम्
चित्रसेनः-
पापोयोनिरयं दुष्टो न विमोक्षणमर्हति
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय
अर्जुनः-
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो युधिष्ठिरः
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि
वैशम्पायनः-
ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम्
अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम्
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च
युधिष्ठिरः-
दिष्ट्या भवद्भिर्बलिभिश्शक्तैस्सर्वैर्न हिंसितः
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः
उपकारो महांस्तात कृतोऽयं मम खेचर
कुलं न परिभूतं मे मोक्षेणेन दुरात्मनः
आज्ञापयध्वमिष्टा हि प्रीतिर्मे दर्शनेन च
प्राप्य सर्वानभिप्रायांस्ततो गच्छत मा चिरम्
वैशम्पायनः-
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता
सहाप्सरोभिस्संहृष्टाश्चित्रसेनमुखा ययुः
देवलोकं ततो गत्वा गन्धर्वैस्सहितस्तदा
न्यवेदयच्च तत्सर्वं चित्रसेनश्शतक्रतोः
देवराजोऽपि गन्धर्वान्हतांश्च समजीवयत्
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः
कृत्वा तद्दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः
ततो दुर्योधनं मुक्तं भ्रातृभिस्सहितस्तदा
युधिष्ठिरस्सप्रणयमिदं वचनमब्रवीत्
युधिष्ठिरः-
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्
न हि साहसकर्तारस्सुखमेधन्ति भारत
स्वस्तिमान्सहितस्सर्वैर्भ्रातृभिः कुरुनन्दन
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः
वैशम्पायनः-
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा
विदीर्यमाणो व्रीलेन जगाम नगरं प्रति
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः
भ्रातृभिस्सहितो वीरैः पूज्यमानो द्विजातिभिः
तपोधनैश्च तैस्सर्वैर्वृतश्शक्र इवामरैः
तथा द्वैतवने तस्मिन्विजहार मुदाऽन्वितः