वैशम्पायनः-
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः
विसृजन्तश्शरान्दीप्तान्पाण्डवान्पर्यवारयन्
चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः
रणे सन्न्यपतन्राजंस्तदद्भुतमिवापतत्
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः
गन्धर्वैश्शतशश्छिन्नस्तथा तेषां प्रचक्रितरे
तान्समापततो राजन्गधर्वाञ्छतशो रणे
प्रत्यगृह्णन्नरव्याघ्राश्शरवर्षैरवाकिरन्
अकीर्यमाणाः खगमाश्शरवर्षैस्समन्ततः
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्
अथ क्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा
लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम्
अजेयानर्जुनस्सङ्ख्ये गन्धर्वान्सूर्यवर्चसः
तथा भीमो महेष्वासस्संयुगे बलिनां वरः
गन्धर्वाञ्शतशसत्र जघान निशितैश्शरैः
माद्रीपुत्रावपि ततो भ्रममाणान्पराङ्मुखान्
परिगृह्याग्रतो राजञ्जघ्नतुश्शतशोऽपरान्
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः
महता शरजालेन समन्तात्पर्यवारयत्
ते बद्धाश्शरजालेन शकुन्ता इव पञ्जरे
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः
गदाशक्त्यृष्टिवृष्टिं तां निहत्य स महास्त्रवित्
गात्राणि प्राहरद्भल्लैर्गन्धर्वाणां धनञ्जयः
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तदा
अश्मवृष्टिरिवाभाति परेषामभवद्भयम्
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना
भूमिष्ठमन्तरिक्षस्थाश्शरवर्षैरवाकिरन्
तेषां तु शरवर्षाणि सव्यसाची परन्तपः
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः
आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः
दैतेया इव शक्रेण विषादमगमन्परम्
ऊर्ध्वमाक्रममाणाश्च शरवर्षेण वारिताः
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत
चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत्
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे
गदां सर्वायसीं पार्थश्शरैश्चिच्छेद सप्तधा
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना
संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवम्
अस्त्राणि तस्य दिव्यानि पोथयामास खे स्थितः
गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा
शब्दवेध्यमथालक्ष्य बहुरूपो धनञ्जयः
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना
अथास्य दर्शयामास तदाऽऽत्मानं प्रियस्सखा
चित्रसेनस्तथोवाच सखाऽयमिति विस्मितः
सञ्जहारास्त्रमथ तत्प्रहृष्टः पाण्डवर्षभः
दृष्ट्वा तु पाण्डवास्सर्वे संहृतास्त्रं धनञ्जयम्
जगृहुः प्रद्रुतानश्वाञ्शरवेगं धनूंषि च
चित्रसेनश्च भीमश्च सव्यसाची यमावपि
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे