वैशम्पायनः-
युधिष्ठिरवचश्श्रुत्वा भीमसेनपुरोगमाः
प्रहृष्टवदनास्सर्वे समुत्तस्थुर्नरर्षभाः
जाम्बूनदविचित्राणि कवचानि महारथाः
अभेद्यानि ततस्सर्वे समं नह्यन्त भारत
ते दंशिता रथैस्सर्वे ध्वजिनस्सशरासनाः
पाण्डवास्समदृश्यन्त ज्वलिता इव पावकाः
तान्रथान्साधुसम्पन्नान्संयुक्ताञ्जवनैर्हयैः
आस्थाय नरशार्दूलाश्शीघ्रमेव ययुस्तदा
ततः कौरवसैन्यानां प्रादुरासन्महास्वनाः
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान्
जितारयश्च खचरास्त्वरिताश्च महारथाः
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत्
न्यवर्तन्त ततस्सर्वे गन्धर्वा जितकाशिनः
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्च ततो रणे
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान्
व्यूढानीकाः प्रतिष्ठन्त गन्धमादनवासिनः
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः
क्रमेण मृदुना युद्धमुपक्रान्तं च भारत
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः
शक्यन्ते मृदुना योद्धुं प्रवादमतुदंस्तदा
ततस्तान्युधि दुर्धर्षान्सव्यसाची परन्तपः
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्वने
अर्जुनः-
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्
परदाराभिमर्शश्च मानुषैश्च समागमः
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान्
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात्
वैशम्पायनः-
एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्
गन्धर्वाः-
एकस्यैव वयं तात कुर्याम वचनं भुवि
यस्य शासनमाज्ञाय चराम विगतज्वराः
तेनैकेन यथाऽऽदिष्टं तथा कुर्मश्च भारत
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात्
वैशम्पायनः-
एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः
गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत
अर्जुनः-
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजम्
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्
वैशम्पायनः-
एवमुक्त्वा ततः पार्थस्सव्यसाची धनञ्जयः
ससर्ज निशितान्बाणान्खचरान्खेचरान्प्रति
तथैव शरवर्षेण गन्धर्वाश्च मदोत्काटाः
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः
ततस्समभवद्युद्धं गन्धर्वाणां तरस्विनाम्
तत्र तद्भीमवेगानां पाण्डवानां च भारत