युधिष्ठिरः-
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः
कौरवान्विषमं प्राप्तान्कथं ब्रूयास्त्वमीदृशम्
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्
न मर्षयन्ति ते सर्वे बाह्येनाभिप्रमर्षनम्
जन्मतो ह्येष दुर्बुद्धिरस्मानिह वनोषितान्
स एवं परिभूयास्मानकार्षीदिदमप्रियम्
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य च
उत्तिष्ठत नरव्याघ्रास्सज्जीभवत मा चिरम्
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः
मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम्
एते रथा नरव्याघ्रास्सर्वशस्त्रसमन्विताः
इन्द्रसेनादिभिस्सूतैस्सायुधाः कनकध्वजाः
एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
य एव कश्चिद्राजन्यश्शरणार्थमिहागतम्
परं शक्त्याऽभिरक्षेत किं पुनस्त्वं वृकोदर
वैशम्पायनः-
एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत
कोपसंरक्तनयनः पूर्ववैरमनुस्मरन्
भीमः-
पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर
दुर्बुद्धिर्हि तदा वीर भृशं दैवेन रक्षिताः
कालकूटविषं तीक्ष्णं भोजने मम भारत
उप्त्वा गङ्गां लतापाशैर्बद्ध्वा च प्राक्षिपत्प्रभो
द्यूतकाले हि कौन्तेय वृजिनानि कृतानि वै
द्रौपद्याश्च परामर्शः केशग्रहणमेव च
वस्त्रापहरणं चैव सभामध्ये कृतानि वै
पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः
अस्माभिरेव कर्तव्यो धार्तराष्ट्रस्य निग्रहः
अन्येन तु कृतं तच्च मैत्र्यमस्माभिरिच्छता
उपकारी तु गन्धर्वो मा राजन्विमना भव
वैशम्पायनः-
एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः
विललाप सुदुःखार्तो ह्रियमाणस्सुयोधनः
दुर्योधनः-
पाण्डुपुत्र महाबाहो पौरवाणां यशस्कर
सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात्
रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम्
दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा
बद्ध्वा हरन्ति गन्धर्वा अस्मद्दारांश्च सर्वशः
अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः
वृकोदर महाबाहो धनञ्जय महायशः
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ
कुरुवंशस्य तु महदयशः प्राप्तमीदृशम्
व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः
वैशम्पायनः-
एवं विलपमानस्य कौरवस्याऽऽर्तया गिरा
श्रुत्वा विलापं सम्भ्रान्तो घृणयाऽभिपरिप्लुतः
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत्
युधिष्ठिरः-
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
य एव कश्चिद्राजन्यश्शरणार्थमिहागतः
परं शक्त्याऽभिरक्षेत किं पुनस्त्वं वृकोदर
कदर्योऽनुनयेत्प्राणानभिधावेति चोदितः
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि द्रुतम्
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम्
न ह्यस्ति विक्रमस्तस्य यदापन्नस्सुयोधनः
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर
विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा
साम्नैव तु यथा वीर मोक्षयेथास्सुयोधनम्
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ
पराक्रमेण मृदुना मोक्षयेथास्सुयोधनम्
अथासौ मृदुयत्नेन न मुञ्चेद्भीम कौरवान्
सर्वोपायेन मोच्यास्ते निगृह्य परिपन्थिनः
एतावत्तु मया शक्यं सन्देष्टुं वै वृकोदर
वैताने कर्मणि तते वर्तमाने च भारत
वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम्
वैशम्पायनः-
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः
प्रतिजज्ञे गुरोर्वाक्यात्कौरवाणां विमोक्षणम्
अर्जुनः-
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम्
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः