वैशम्पायनः-
गन्धर्वैस्तु महाराज कर्णे भग्ने महारथे
सम्प्राद्रवच्चमूस्सर्वा धार्तराष्ट्रस्य पश्यतः
तान्दृष्ट्वा द्रवतस्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण सोऽभ्यवर्षदमर्षणः
अचिन्त्य शरवर्षं तं गन्धर्वास्तस्य तं रथम्
दुर्योधनं जिघांसन्तस्समन्तात्पर्यवारयन्
युगमीषां वरूथं च तथैव ध्वजसारथिम्
अश्वांस्त्रिवेणुमक्षं च शतशो ह्यहनन्रथम्
दुर्योधनं चित्रसेनो विरथं पतितं भुवि
अभिद्रुत्य महाबाहुः केशपक्षे तथाऽग्रहीत्
तस्य बद्ध्वा महाराज बाहू रज्ज्वा महारथः
आरोप्य स महाबाहुश्चित्रसेनो ननाद ह
तस्मिन्गृहीते राजेन्द्र स्थितं दुश्शासनं रथे
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः
विन्दानुविन्दावपरे राजदारांश्च सर्वशः
सेनास्तु धार्तराष्ट्रस्य गन्धर्वैस्समभिद्रुताः
पूर्वं प्रभग्नैस्सहिताः पाण्डवानभ्ययुस्तदा
शकटापणवेशाश्च यानयुग्यं च सर्वशः
शरणं पाण्डवं जग्मुर्ह्रियमाणाः परन्तप
दुर्योधनामत्याः-
प्रियदर्शो महाबाहुर्धार्तराष्ट्रो महाबलः
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत
दुश्शासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः
वैशम्पायनः-
इति दुर्योधनामात्याः क्रोशन्तो राजभिर्विना
आर्ता दीनस्वरास्सर्वे युधिष्ठिरमुपागमन्
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत
भीमसेनः-
अन्यथा वर्तमानानामर्थो भूतोऽयमन्यथा
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्
दुर्मन्त्रितमिदं तथा राजन्निदं दुर्द्यूतदेविनः
दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः
द्वेष्टारमन्ये क्लीबस्य घातयन्तीति शाश्वतम्
कृतं तदेव प्रत्यक्षं गन्धर्वैरतिमानुषम्
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
येनास्माकं हृतो भार आसीनानां सुखावहः
शीतवातातपसहांस्तपसा चैव कर्शितान्
समस्थो विषमस्थांश्च द्रष्टुमिच्छति दुर्मतिः
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम्
अधर्मो हि कृतस्तेन येनैतदुपलक्षितम्
अनृशंस्यात्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः
वैशम्पायनः-
एवं ब्रुवाणं कौन्तेयं भीमसेनं परस्परम्
न कालः परुषस्यायमिति राजाऽभ्यभाषत