वैशम्पायनः-
वैशम्पायनः-
ततस्ते सहितास्सर्वे दुर्याधनमुपागमन्
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्
अमर्षपूर्णस्सैन्यानि प्रत्यभाषत भारत
दुर्योधनः-
शासतैनानधर्मज्ञान्मम विप्रियकारिणः
यदि प्रक्रीडते सर्वैर्देवैस्सह शचीपतिः
दुर्योधनवचश्श्रुत्वा धार्तराष्ट्रा महाबलाः
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्
सिंहनादेन महता पूरयन्तो दिशो दश
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः
साम्नैव तत्र विक्रान्ता मा साहसमिति प्रभो
ते वार्यमाणा गन्धर्वैस्साम्नैव वसुधाधिप
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्बलात्
यदा वाचा न तिष्ठन्ति वार्यमाणास्सराजकाः
ततस्ते खेचरास्सर्वे चित्रसेने न्यवेदयन्
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवं प्रति
अनार्यान् बाधतेत्येवं चित्रसेनोऽत्यमर्षणः
अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत
प्रगृहीतायुधास्सर्वे धार्तराष्ट्रान्समाद्रवन्
तान्दृष्ट्वाऽऽपततश्शीघ्रं गन्धर्वानुद्यतायुधान्
सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः
तान्दृष्ट्वा द्रवतस्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः
आपतन्तीं तु तां प्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण राधेयः प्रत्यवारयत्
क्षुरप्रैर्विविधैर्भल्लैर्वत्सदन्तैस्तथाऽयसैः
गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघु तान्सूतनन्दनः
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम्
ते वध्यमाना गन्धर्वास्सूतपुत्रेण धीमता
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः
गन्धर्वभूता पृथिवी क्षणेन समपद्यत
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः
अथ दुर्योधनो राजा शकुनिश्च महाबलः
दुश्शासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्स्वनैः
सैन्यमायोधितं दृष्ट्वा कर्णो राजन्नहृष्यत
महता रथघोषेण योधयामास चाच्युतम्
वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन्
ततस्सन्न्यपतन्सर्वे गन्धर्वाः कौरवं प्रति
तदा स्म तुमुलं युद्धमभवद्रोमहर्षणम्
ततस्ते बहवोऽभूवन्गन्धर्वाश्शरपीडिताः
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान्
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः
ततो मायास्समाश्रित्य युयुधे चित्रमार्गवित्
गगनं छादयामास न ववौ तत्र मारुतः
हस्त्यारोहा हताः पेतुर्हस्तिभिस्सह भारत
हयारोहाश्च सहया रथैश्च रथिनस्तदा
पत्तयश्च तथा पेतुर्विशस्ताश्शरवृष्टिभिः
तथा मुह्यन्ति कौरव्याश्चित्रसेनस्य मायया
एकैकं हि यथा योधो धार्तराष्ट्रस्य भारत
पर्यवार्यतं गन्धर्वैर्दशभिर्दशभिर्युधि
ततस्सम्पीड्यमानास्ते बलेन महता तदा
भज्यमानेषु सर्वेषु धार्तराष्ट्रेषु सर्वशः
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः
दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः
गन्धर्वान्योधयामासुस्समरे शरविक्षताः
सर्व एव तु गन्धर्वाश्शतशोऽथ सहस्रशः
जिघांसमानास्संरब्धाः कर्णमभ्यद्रवन्रणे
असिभिः पट्टसैः खड्गैर्गदाभिश्च महारथाः
सूतपुत्रं जिघांसन्तस्समन्तात्पर्यवारयन्
अन्येऽस्य युगमच्छिन्दन्युगमन्ये न्यपातयन्
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्
अन्ये च्छत्रं वरूथं च बभञ्जुश्च तथा परे
अन्ये सञ्चूर्णयामासुश्चक्रे अक्षे तथा परे
गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम्
प्रगृहीतायुधा वीराश्चित्रसेनपुरोगमाः
ततो रथादवप्लुत्य सूतपुत्रोऽपि भारत
अथावलम्बितधनुर्धावमानो महाबलः
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्