वैशम्पायनः-
अथ दुर्योधनो राजा तत्र तत्र वने वसन्
जगाम घोषानभितस्तत्र चक्रे निवेशनम्
देशे हि रमणीये च सोदके समहीतले
तत्र सर्वगुणोपेते चक्रुरावसथान्नराः
वासं तथैव कर्णस्य भ्रातॄणां चैव सर्वशः
पश्यन्तस्ते तदा गावश्शतशोऽथ सहस्रशः
अङ्कैर्लक्षैश्च तास्सर्वा लक्षयामास पार्थिवः
अङ्कयामास वत्सांश्च जज्ञे चोपास्यतांस्त्वपि
बालवत्साश्च या गावो गणयामास ता अपि
अथ संस्मारणं कृत्वा स सत्यां याति भानुवत्
वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः
स च पौरजनस्सर्वस्सैनिकाश्च सहस्रशः
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादिते
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः
स स्त्रीगणवृतो राजा वसूंस्तासां ददौ तदा
तेभ्यो यथार्हमन्नानि पानानि विविधानि च
ततस्ते सहितास्सर्वे तरक्षून्महिषान्मृगान्
गवयर्क्षवराहांश्च समन्तात्पर्यकालयन्
स ताञ्छरैर्विनिर्भिन्दन् गजान्बद्ध्वा महावने
रमणीयेषु देशेषु हावयञ्शतशो मृगान्
गोरसानुपयुञ्जान उपभोगांश्च भारत
पश्यंश्च रमणीयानि पुष्पितानि वनानि च
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्
यदृच्छया च तदहो धर्मराजो युधिष्ठिरः
ईजे राजर्षियज्ञेन स्वकाम्येन विशां पते
दिव्येन विधिना राजा वन्येन कुरुसत्तमः
विद्वद्भिस्सहितो धीमान्ब्राह्मणैर्वनवासिभिः
कृत्वा निवेशमभितस्सरसस्तस्य कौरव
द्रौपद्या सहितो धीमान्धर्मपत्न्या महामनाः
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः
आक्रीडावसथान्क्षिप्रं क्रियन्तामिति भारत
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः
शासनाद्धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः
प्रविशन्तं वनं राजन्गन्धर्वास्समवारयन्
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते
कुबेरभवनाद्राजन्नाजगाम जनावृतः
गणैरप्सरसां चैव त्रिदशानां तदाऽऽत्मजैः
विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः
प्रतिजग्मुस्तथा राजन्यत्र दुर्योधनो नृपः
स तु तेषां वचश्श्रुत्वा सामर्षो वाहिनीं तदा
प्रेषयामास कौरव्य उत्सारयत तानिति
तस्य तद्वचनं श्रुत्वा राज्ञस्सेनाग्रयायिनः
सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन्
सैनिकाः-
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली
चिक्रीडिषुरिहाऽऽयाति तदर्थमपसर्पत
वैशम्पायनः-
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते
प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः
गन्धर्वाः-
न चेतयति वो राजा मन्दबुद्धिस्सुयोधनः
सोऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः
यूयं मुमूर्षवश्चैव मन्दप्रज्ञानसंयुताः
ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः
गच्छध्वं त्वरितास्सर्वे यत्र राजा स कौरवः
यथा न गच्छति द्वैतं धर्मराजनिवेशनम्
वैशम्पायनः-
एवमुक्तास्तु ते सर्वे राज्ञस्सेनाग्रयायिनः
सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत्