वैशम्पायनः-
धृतराष्ट्रं ततस्सर्वे ददृशुर्जनमेजय
दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत
ततस्तैर्विहितः पूर्वं सङ्गवो नाम वल्लवः
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्
अनन्तरं च राधेयश्शकुनिश्च महाबलः
आहतुः पार्थिवश्रेष्ठ धृतराष्ट्रं जनाधिपम्
शकुनि-कर्णौ-
रमणीयेषु देशेषु घोषास्सम्प्रति कौरव
स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कितुम्
मृगयाऽद्योचिता राजन्नस्मिन्काले सुतस्य ते
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि
धृतराष्ट्रः-
मृगया शोभना तात गवां च समवेक्षणम्
संविस्रभ्य न गन्तव्यः पाण्डवानामिति स्मह
ते तु तत्र नरव्याघ्रास्समीप इति नश्श्रुतम्
ततो न ह्यनुजानामि गमनं तत्र यत्स्वयम्
छद्मना निर्जितास्ते तु कर्शिताश्च महावने
तपोनित्याश्च राधेय समर्थाश्च महारथाः
धर्मराजस्तु सङ्क्रुद्ध्येद्भीमसेनस्त्वमर्षणः
यज्ञसेनस्य दुहिता तेजसा सा तु केवलम्
यूयं च पुनरर्देयुर्दर्पमोहसमन्विताः
अथवा सायुधा वीरा मन्युनाऽभिपरिप्लुताः
सहिता बद्धनिस्त्रिंशा दहेयुश्शस्त्रतेजसा
अथ यूयं बहुत्वात्तान्नालभध्वं कथञ्चन
अन्यायं परमं तत्स्यात्क्षमं शक्यं च मे मतम्
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः
दिव्यान्यस्त्राणि सम्प्राप्य ततः प्रत्यागतो वनम्
अकृतास्त्रेण भीतास्स्म वयं बीभत्सुना पुरा
किं पुनस्स कृतास्त्रोऽद्य न हन्याद्वो महारथः
अथवा मद्वचश्श्रुत्वा तत्र यत्ता भविष्यथ
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे
तदबुद्धिकृतं कर्म दोषमुत्पादयेत्तव
तस्मादन्यो नरो यातु स्मारणापातकारणम्
न स्वयं तत्र गमनं रोचये तव भारत
शकुनिः-
धर्मज्ञः पाण्डवश्श्रेष्ठः प्रतिज्ञातश्च संसदि
तेन द्वादशवर्षाणि वस्तव्यानीति भारत
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः
युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्
स्मारणाच्च चिकीर्षामो न तु पाण्डवदर्शनम्
न चानार्यसमाचारः कश्चित्तत्र भविष्यति
न च तत्र समाचारो यत्र तेषां प्रतिश्रयः
वैशम्पायनः-
एवमुक्तश्शकुनिना धृतराष्ट्रो जनाधिप
दुर्योधनं सहामात्यमनुजज्ञे न कामतः
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा
निर्ययौ भरतश्रेष्ठ सौबलेन समावृतः
दुश्शासनेन च तथा सौबलेन च देविना
सर्वैश्च भ्रातृभिस्सार्धं स्त्रीभिश्चैव सहस्रशः
पौराश्चानुययुस्सर्वे सहदारा वनं च तत्
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च
पत्तीश्शतसहस्राणि हयानां तावतीश्शतम्
शकटापणवेशाश्च वणिजो वन्दिनस्तथा
नराश्च मृगयाशीलाश्शतशोऽथ सहस्रशः
ततः प्रयाते नृपतौ सुमहानभवत्स्वनः
प्रावृषीव महावायोरुत्थितस्य विशां पते
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा
प्रयातो वाहनैस्सर्वैस्ततो द्वैतवनं सरः