वैशम्पायनः-
दुर्योधनः-
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
हृष्टो भूत्वा पुनर्दीनो राधेयमिदमब्रवीत्
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम्
न त्वभ्यनुज्ञां लप्स्येऽहं गमने यत्र पाण्डवाः
परिदेवति तान्वीरान्धृतराष्ट्रोऽम्बिकासुतः
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम्
उन्मादनं मदं तेषां वनस्थानां मम द्विषाम्
जानाति हि यथा क्षत्ता द्यूतकाल उपस्थिते
अब्रवीत्त्वां च मां चैव सौबलं च वचस्तदा
तानि सर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्
विचिन्त्य निश्चयं राजन् गमनायेतराय वा
ममापि सुमहान्हर्षो यदहं भीमफल्गुनौ
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति
न तथा प्राप्नुयां भूतिमवाप्य वसुधामपि
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत्
उपायान्नानुपश्यामि येन गच्छेम तद्वनम्
यथा चाभ्यनुजानीयाद्व्रजन्तं मां महीपतिः
स सौबलेन सर्वैश्च तथा दुश्शासनेन च
उपायं पश्य निपुणं येन गच्छेम तद्वनम्
अहमप्यत्र निश्चित्य गमनायेतराय च
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह
मयि तत्रोपविष्टे च भीष्मे च कुरुसत्तमे
उपायो यो भवेद्दृष्टस्तं ब्रूयास्सहसौबलः
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति
व्यवसायं करिष्येऽहमनुनीय पितामहम्
वैशम्पायनः-
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्
कर्णः-
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर
घोषा द्वैतवनं सर्वे त्वत्प्रतीक्षा नराधिप
घोषयात्रापदेशेन गमिष्यामो न संशयः
उचितं हि सदा गन्तुं घोषयात्रां विशां पते
एवं च स्थापितो राजंस्त्वमनुज्ञातुमर्हति
वैशम्पायनः-
तथा कथयमानौ तु घोषयात्राविनिश्चयम्
गान्धारराजश्शकुनिरित्युवाच हसन्निव
शकुनिः-
उपायोऽयं मया दृष्टो गमनाय निरामयः
अनुज्ञास्यति वै राजा चोदयिष्यति चाप्युत
घोषा द्वैतवनं सर्वे त्वत्प्रतीक्षा जनाधिप
घोषयात्रापदेशेन गमिष्यामस्सरः प्रति
वैशम्पायनः-
ततः प्रहसितास्सर्वे तेऽन्योन्यस्य तलं ददुः
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम्