वैशम्पायनः-
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः
कथाभिरनुरूपाभिस्सहासित्वा जनार्दनः
ततस्तैस्संविदं कृत्वा यथावन्मधुसूदनः
आरुरुक्षू रथं सत्यामाह्वयामास भारत
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्
उवाच वचनं हृद्यं यथाभावं समाहितम्
सत्यभामा-
कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः
भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम्
न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे
अवश्यं च त्वया भूमिरियं निहतकण्टका
भर्तृभिस्सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च
युधिष्ठिरे स्वां पृथिवीं द्रष्टासि द्रुपदात्मजे
यास्ताः प्रव्राज्यमानां त्वां प्राहसन्दर्पमोहिताः
ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः
तव दुःखोपपन्नाया यैराचरितमप्रियम्
विद्धि तान्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमश्च वर्धनः
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातश्श्रुतसेनस्तवाऽऽत्मजः
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते भावनिर्द्वन्द्वा तेभ्यश्च विगतज्वरा
भज सर्वात्मना चैव प्रद्युम्नजननी तथा
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः
भोजनाच्छादने तेषां नित्यं मे श्वशुरस्स्थितः
रामप्रभृतयस्सर्वे भजन्त्यन्धकवृष्णयः
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि
वैशम्पायनः-
एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोगतम्
गमनाय मनश्चक्रे वासुदेवरथं प्रति
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्
आरुरोह रथं शौरेस्सत्यभामा च भामिनी
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च
उपावर्त्य ततश्शीघ्रैस्ततः प्रायान्नराधिप