द्रौपदी-
इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः
अस्मिन्यथावत्सह वर्तमाना भर्तारमाधात्स्यसि कामिनीभ्यः
नैतादृशं दैवतमस्ति किञ्चित्सर्वेषु लोकेषु सदैवतेषु
यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादे कुपितश्च हन्यात्
तस्मादपत्यं विविधाश्च भोगाश्शय्यासनान्यद्भुतदर्शनानि
वस्त्राणि माल्यानि तथैव गन्धास्स्वर्गश्च लोको विविधा च कीर्तिः
सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि
सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च
स्नानासनैश्चारुभिरग्रमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च भावैः
अस्याः प्रियोऽस्मीति तथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः
श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये
दृष्ट्वा प्रविष्टं त्वरिताऽऽसनेन पाद्येन चैव प्रतिपूजय त्वम्
सम्प्रेषितायामपि चैव दास्यामुत्थाय चैव प्रतिकर्म कुर्या
जानातु कृष्णस्तव चेतिभावं सर्वात्मना मां भजतीति सत्ये
त्वत्सन्निधौ यद्वचनं पतिस्ते यद्यप्यवश्यं परिरक्षितव्यम्
काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विकारः
प्रियांश्च रम्यांश्च हितांश्च भर्तुस्तान्भोजयेस्त्वं विविधैरुपायैः
द्वेष्यैरुपेक्ष्यैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्धतैश्च
इदं प्रमाणं पुरुषेषु कृत्वा संयच्छ मानं प्रतिगृह्यमाणम्
प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित्
माहात्म्यशीलाभिरपापिकाभिस्स्त्रीभिस्सखीभिस्तव सख्यमस्तु
चण्डाश्च शौण्डाश्च महाशनाश्च चोराश्च दुष्टाश्चपलाश्च वर्ज्याः
एतद्यशस्यं भगवेतनं च स्वार्थं तदा शत्रुनिबर्हणं च
महार्हमाल्याभरणाङ्गरागैर्भर्तारमाराधय पुण्यगन्धैः