वैशम्पायनः-
उपासीनेषु विप्रेषु पाण्डवेषु च भारत
द्रौपदी सत्यभामा च विविशाते तदाश्रमम्
प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ
ते हास्यमाने सुप्रीते सुखं तत्र निषीदतुः
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे
कथयामासतुश्चित्राः कथाः कुरुयदूचिताः
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा
सत्यभामा-
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि
लोकपालोपमान्वीरान्नित्यं परमसम्मतान्
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे
तव वश्या हि सुभृशं पाण्डवाः प्रियदर्शने
न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि च
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः
ममाप्याचक्ष्व पाञ्चालि यशस्यं भगवेतनम्
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः
वैशम्पायनः-
एवमुक्त्वा सत्यभामा विरराम यशस्विनी
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्
द्रौपदी-
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
असदाचरितो मार्गः कथं स्यादनुकीर्तनम्
अनुप्रश्नस्संशयो वा नैष त्वय्युपपद्यते
कथं ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
उद्वेजते तदैवास्यास्सर्पाद्वेश्मगतादिव
उद्विग्नस्य कुतश्शान्तिरशान्तस्य कुतस्सुखम्
न जातु वशगो भर्ता स्त्रियास्स्यान्मन्त्रकारणात्
अमित्रविहिताश्चापि नार्यस्तत्र सुदारुणाः
मूलप्रवादेन विषं प्रयच्छन्ति जिघांसवः
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते
ततश्चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्
जलोदरसमायुक्ताश्चित्रिणः फलितास्तथा
अपुमांसः कृतास्स्त्रीभिर्जडान्धबधिरास्तथा
पापानुषङ्गाः पापास्ताः पतीनुपसृजन्त्युत
न जातु विप्रियं भर्तुस्स्त्रिया कार्यं कथञ्चन
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
तां सर्वां शृणु मे सत्यं सत्यभामे यशस्विनि
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा
सदारान्पार्थिवान्नित्यं प्रयतोपचराम्यहम्
प्रणयं प्रतिसङ्गृह्य निधायाऽऽत्मानमात्मनि
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षणी
दुर्व्याहृताच्च कामानामुत्थिताद्दुरवेक्षितात्
दुरासदाद्दुर्विनीतादिङ्गिताध्यासितादपि
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान्
सेवे मित्रगुणान्पार्थानुग्रतेजः प्रतापिनः
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि
न संविशामि नाश्नामि न स्नाये कर्म कुर्वती
क्षेत्राद्वनाद्वा ग्रामाद्वा गृहं भर्तारमागतम्
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना
अतिरस्कृतसम्भारा दुःस्त्रियो नानुसेवना
अनुकूलवती नित्यं भवाम्यनलसा सदा
अनर्मे वापि हसितं द्वारि स्थानमभीक्ष्णशः
अवस्करेऽपि च स्थानं निष्कुटे च विसर्जये
अन्त्यालापमसन्तोषं परव्यापारसङ्कथाम्
अतिहासातिरोषं च क्रोधस्थानं च वर्जये
निरताऽहं सदा सत्ये पापानां च विसर्जने
सर्वथा भर्तुरहितं न ममेष्टं कथञ्चन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्
सुमनोवर्णकापेता भवामि व्रतधारिणी
यच्च भर्ता न पिबति यच्च भर्ता न खादति
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्
यथोपदेशं नियता वर्तमाना वराङ्गने
स्वलङ्कृता स्ववहिता भर्तुः प्रियहिते रता
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा
अनुतिष्ठामि तत्सर्वं नित्यकालमतन्द्रिता
भिक्षाबलिश्राद्धमिति स्थालीपाकश्च सर्वशः
मान्यानां मान्यसत्कारं ये चान्ये विदिता मया
तान्सर्वाननुवर्तेऽहं दिवारात्रमतन्द्रिता
विनयाचारसंयुक्ता सदा सर्वात्मना श्रिता
मृदून्सतस्सत्यशीलान्सत्यधर्मानुपालिनः
आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम्
पत्याश्रयो हि मे धर्मो मतस्स्त्रीणां सनातनः
स देवस्सा गतिर्नान्यस्तस्य का न प्रियं चरेत्
अहं पतीन्नातिशये नात्यश्ने नातिभूषये
नापि श्वश्रूं परिवदे सर्वदा पतियन्त्रिता
अवधानेन सुभगे नित्योत्थाना भवामि वा
भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्
स्वयं परिचराम्येका स्नानाच्छादनभोजनैः
न चाप्यतिशये जातु वस्त्रभूषणभोजनैः
न चाप्यतिवदे वाचा तां पृथां पृथिवीसमाम्
अष्टावग्रे सहस्राणि ब्राह्मणानां च नित्यदा
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
अष्टादशसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
दशान्यानि सहस्राणि तेषामन्नं सुसंस्कृतम्
भुञ्जते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः
यथार्हं पूजयन्ति स्म पानाच्छादनभोजनैः
शतं दश सहस्राणां कौन्तेयस्य महात्मनः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यस्स्वलङ्कृताः
महार्हमाल्याभरणास्सुवर्णाश्चन्दनोक्षिताः
मणीन्हेम च बिभ्रन्त्यो नृत्तगीतविशारदाः
तासां नाम च रूपं च भोजनाच्छादनानि च
तासामेव च वेदाहं कर्म चैव कृताकृतम्
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
शतमश्वसहस्राणि दशनागायुतानि च
युधिष्ठिरस्यानुयायिनी इन्द्रप्रस्थनिवासिनः
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
सर्वं राज्ञस्समुदयमायं च व्ययमेव च
एकाऽहं वेद्मि कल्याणि पाण्डवानां यशस्विनि
मयि सर्वं समासाद्य कुटुम्बं भरतर्षभाः
उपासनपरास्सर्वे दयां यान्ति शुभानने
तमहं भारमासक्तमनाधृष्यं महात्मभिः
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्
एकाऽहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्
अनिशायां निशायां च विहाय क्षुत्पिपासयोः
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे
प्रथमं प्रतिबुध्यामि चरमं संविशामि च
नित्यकालमहं मन्ये एतत्संवेतनं महत्
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्
असत्स्त्रीणां समाचारं नाहं कुर्यां न रोचये
वैशम्पायनः-
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्
सत्यभामा-
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे
कामकारस्सखीनां हि सोपहासं प्रभाषितुम्