मार्कण्डेयः-
यदा स्कन्देन मातॄणामेवमेतत्प्रकीर्तितम्
अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्
तामब्रवीत्ततस्स्कन्दः प्रीतिमिच्छसि कीदृशीम्
स्वाहा-
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने
न स मां कामिनीं पुत्र सम्यग्जानाति पावकः
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना
स्कन्दः-
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम्
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम्
अद्यप्रभृति दास्यन्ति सुपुत्रास्सत्पथे स्थिताः
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने
मार्कण्डेयः-
एवमुक्ता ततस्स्वाहा तुष्टा स्कन्देन पूजिता
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्
ततो ब्रह्मा महासेनं प्रजापतिरभाषत
ब्रह्मा-
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया
हितार्थं सर्वलोकानां जातस्त्वमपराजितः
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना
आस्ते गिरौ निपतितं मुञ्जिको मुञ्जिका ततः
मिथुनं वै महाभाग तत्र तद्रुद्रसम्भवम्
भूतं लोहितोद्देशे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधाऽपतत्
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः
त एवं पार्षदा घोरा य एते पिशिताशिनः
मार्कण्डेयः-
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्
अपूजयदमेयात्मा पितरं पितृवत्सलः
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः
व्याधेः प्रशमनार्थं च तेषां पूजां यथार्हतः
मुञ्जिकोमुञ्जिका चैव मिथुनं रुद्रसम्भवम्
नमस्कार्यं सदैवेह बालानां हितमिच्छता
स्त्रियो मानुषमांसादा वृक्षका नाम नामतः
वृक्षेषु जाता वै देव्यो नमस्कार्याः प्रजार्थिभिः
तेषामेव पिशाचानामसङ्ख्येया गुणास्स्मृताः
घण्टायास्सपताकायाश्शृणु मे सम्भवं नृप
ऐरावतस्य घण्टे द्वे वैजयन्त्या विभूषिते
शुभाय ते शुभे दत्ते क्रमेणाऽऽनाय्य धीमता
एतास्तत्र विशाखस्य घण्टा स्कन्दस्य चापरा
पताका कार्तिकेयस्य विशाखस्य च लोहिता
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा
तैरेव रमते देवो महासेनो महाबलः
स संवृतः पिशाचानां गणैर्देवगणैस्तथा
शुशुभे काञ्चने शैले दीप्यमानश्श्रिया वृत्तः
तेन वीरेण शुशुभे स शैलश्शुभकाननः
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः
सन्तानकवनैः फुल्लैः करवीरवनैरपि
पारिजातवनैश्चैव जपाशोकवनैस्तथा
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि
तत्र देवाश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा
हृष्टानां तत्र भूतानां श्रूयते निनदो महान्
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतमास्थितम्
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्
यदाऽभिषिक्तो भगवान्सेनापत्ये तु पावकिः
तदा सम्प्रस्थितश्श्रीमांस्ततो भद्रवटो हरः
रथेनाऽऽदित्यवर्णेन पार्वत्या सहितः प्रभुः
अनुयातस्सुरैस्सर्वैस्सहस्राक्षपुरोगमैः
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे
उत्पपात रथो दिव्यः कालेनाभिप्रचोदितः
पिबन्त इव चाकाशं त्रासयन्तश्चराचरान्
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
तस्मिन्रथे पशुपतिस्स्थितो भात्युमया सह
विद्युता सहितस्सूर्यस्सेन्द्रचापे घने यथा
अग्रतस्तस्य भगवान्धनेशो गुह्यकैस्सह
आस्थाय रुचिरं भाति पुष्पकं नरवाहनः
ऐरावतं समास्थाय शक्रश्चापि सुरैस्सह
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
भास्करस्यैषरक्षोभिस्स्रग्विभिस्समलङ्कृतः
यात्यमोघो महायक्षो दक्षिणं पक्षमाश्रितः
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः
गच्छन्ति वसुभिस्सार्धं रुद्रैश्च सह सङ्गताः
यमश्च मृत्युना सार्धं सर्वतः परिवारितः
घोरैर्व्याधिशतैर्युक्तो घोररूपवपुस्तथा
यमस्य पृष्ठतश्चैव स घोरस्त्रिशिराश्शितः
विजयो नाम रुद्रस्य याति शूलस्स्वलङ्कृतः
तमुग्रपाशो भगवान्वरुणस्सलिलेश्वरः
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टसः
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
पट्टसं त्वन्वगाद्राजन्वज्रं घोरं महाप्रभम्
कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः
तस्य दक्षिणतो याति दण्डो गच्छञ्श्रिया वृतः
भृग्वङ्गिरोभिस्सहितो देवैश्चाप्यभिपूजितः
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः
ऋषयश्चैव देवाश्च गन्धर्वानुगतास्तथा
नद्यो द्रुमा नगाश्चैव तत्रैवाप्सरसां गणाः
नक्षत्राणां गणाश्चैव देवानां शिशवश्च ये
स्त्रियश्च सर्वदेवानां यान्ति रुद्रस्य पृष्ठतः
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पितामहम्
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्
चामरे चापि वायुश्च गृहीत्वाऽग्निश्च विष्ठितौ
शक्रश्च पृष्ठतस्तस्य याति राजञ्छ्रिया वृतः
सह राजर्षिभिस्सर्वैस्स्तुवानो वृषकेतनम्
गौरी विद्याऽथ गान्धारी केशिनी मित्रसाह्वया
सावित्र्या सह सर्वास्ताः पार्वत्या सह पृष्ठतः
तत्र विद्यागणास्सर्वे ये केचित्कविभिस्स्मृताः
तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
स गृहीत्वा पताकां वै यात्यग्रे राक्षसो ग्रहः
क्रीडतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा
पिङ्गलो नाम यक्षेन्द्रो लोकस्याऽऽनन्ददायकः
एभिस्स सहितस्तत्र ययौ देवो यथासुखम्
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्
शिवमित्येव यं प्राहू रुद्रं चैव पिनाकिनम्
एवं सर्वे सुरगणास्तदा वै प्रीतमानसाः
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः
अथाब्रवीन्महासेनं महातेजा वृषध्वजः
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः
गुहः-
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो
यदन्यदपि मे कार्यं देव तद्वद माचिरम्
महादेवः-
कार्येष्वहं त्वया पुत्र सन्द्रष्टव्यस्सदैव हि
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि
मार्कण्डेयः-
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः
स्कन्दं सहोमया प्रीतो ज्वलन्तमिव तेजसा
विसर्जिते ततस्स्कन्दे बभूवौत्पातिकं महत्
सहसैव महाराज देवान्सर्वान्प्रमोहयन्
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो
ततस्स्कन्दाननं दृष्ट्वा क्षुभितश्शङ्करस्तदा
उमा चापि महाभागा स देवर्षिगणैस्सह
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम्
नानाप्रहरणं घोरमदृश्यत महद्बलम्
तद्धि घोरमसङ्ख्येयं गर्जन्तं विविधां गिरम्
अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम्
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः
पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः
क्षणेनाभ्यद्रवत्सर्वं विमुखं चैव दृश्यते
निकृत्तयोधनाभं च कृत्तायुधमहारथम्
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
असुरैर्धक्ष्यमाणं तु पावकैरिव काननम्
अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा
ते विभिन्नशिरोदेहाः प्राद्रवन्त दिवौकसः
नानाविधमभीच्छन्त वध्यमाना महारणे
अथ तद्विद्रुतं दृष्ट्वा सैन्यं देवः पुरन्दरः
आश्वासयन्नुवाचेदं बलं तद्दानवार्दितम्
पुरन्दरः-
भयं त्यजत भद्रं वश्शूराश्शस्त्राणि गृह्णत
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत्
जयतैनान्दुराधर्षान्दानवान्घोरदर्शनान्
अभिद्रवत भद्रं वो मया सह महासुरान्
मार्कण्डेयः-
शक्रस्य वचनं श्रुत्वा समाश्वस्तास्तु दानवान्
प्रत्ययुध्यन्त देवान्वै शक्रं कृत्वा व्यपाश्रयम्
ततस्ते त्रिदशास्सर्वे मरुतश्च महाबलाः
प्रत्युद्ययुर्महासेनास्साध्याश्च वसुभिस्सह
तैर्विसृष्टान्यनीकेषु क्रुद्धैश्शस्त्राणि संयुगे
दैतेयगजकायेषु पिबन्ति स्मासृगुल्बणम्
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः
तानि दैत्यशरीराणि निर्भिन्नानि सुसायकैः
न्यपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्
अथोद्धुष्टं तदा हृष्टैस्सर्वैर्देवैरुदायुधैः
संहतानि च तूर्याणि तदा सर्वाण्यनेकशः
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम्
देवानां दानवानां च मांसशोणितकर्दमम्
अनयो देवलोकस्य सहसैवाभ्यदृश्यत
तदाऽपि दानवा घोरा विनिघ्नन्ति दिवौकसः
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः
बभूवुर्दानवेन्द्राणां सिंहनादश्च दारुणः
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्
ते तं धनैरिवाऽऽदित्यं दृष्ट्वा सम्परिवारितम्
समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्
महाकायं महाराज सतोयमिव तोयदम्
पतता तेन गिरिणा देवसैन्यस्य पार्थिव
भीमरूपेण निहतमयुतं प्रापतद्भुवि
अथ तैर्दानवैस्सार्धं महिषस्त्रासयन्सुरान्
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः
व्यद्रवन्त रणे भीता विकीर्णायुधकेतनाः
ततस्तु महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ
अभिसृत्य च जग्राह स रुद्ररथकूबरम्
यदा रुद्ररथं क्रुद्धो महिषस्सहसा गतः
रसतो रोदसी गाढं मुमुहू ऋषयस्तदा
व्यनदंश्च महाकाया दैत्या जलधरोपमाः
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत
तथाभूते तु भगवानागतं महिषं रणे
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत्
देवान्सन्त्रासयंश्चापि दानवांश्च प्रहर्षयन्
ततस्तस्मिन्क्षये घोरे देवानां समुपस्थिते
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन्
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः
लोहितास्यो महाबाहुर्हिरण्यकवचस्रजः
रथमादित्यसङ्काशमास्थितः कनकप्रभम्
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे
स चापि तां प्रज्वलितां महिषस्य विदारिणीम्
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः
सा मुक्ताऽन्यहनच्छक्तिर्महिषस्य शिरो महत्
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः
प्रायो हतेषु शूरेषु महासेनेन धीमता
दानवेषु महाराज तस्मिन्देवासुरे युधि
तेषां दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः
स्कन्दस्य पार्षदैर्घोरैः भक्षिताश्शतसङ्ख्यशः
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः
तमांसीव यथा सूर्यो वृक्षानितिघनान्खगः
तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण शक्तिमान्
सम्पूज्यमानस्त्रिदशैरभिपूज्य महेश्वरम्
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान्
नष्टशत्रुर्यथा स्कन्दः प्रयातश्च महेश्वरम्
तदाऽब्रवीन्महासेनं परिष्वज्य पुरन्दरः
पुरन्दरः-
ब्रह्मदत्तवरस्स्कन्द त्वयाऽयं महिषो हतः
अजेयो युधि देवानां दानवस्सुमहाबलः
देवासुरा मया यस्य बिभियुर्जयतांवर
सोऽयं त्वया महाबाहो शमितो देवकण्टकः
शतं महिषतुल्यानां दानवानां महारणे
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः
तावकैर्भक्षिताश्चान्ये दानवाश्शतसङ्घशः
भवतोऽनुचरैर्वीर गणैः परमभीषणैः
अशक्यस्त्वं रणेऽरीणामुमापतिरिव प्रभुः
एतत्ते प्रथमं कर्म देव ख्यातं भविष्यति
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति
वशगाश्च भविष्यन्ति सुरास्तव महाभुज
मार्कण्डेयः-
महासेनं त्वेवमुक्त्वा निवृत्तस्सह दैवतैः
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः
ततो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः
स्कन्दस्य य इदं जन्म पठते सुसमाहितः
स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात्