मार्कण्डेयः-
ततः प्रकल्प्य पुत्रत्वे स्कन्दं मातृगणा गमन्
काकी च हलिमा चैव माता चाथ हली तथा
आर्या बला या वै धात्र्यस्सप्तैताश्शिशुमातरः
एतासां वीर्यसम्पन्नो मद्गुर्र्नाम्नाऽतिदारुणः
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः
एष वीराष्टके प्रोक्तस्स्कन्दो मातृगणोद्भवः
छागवक्त्रेण सहितो महासेनः प्रकीर्त्यते
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत्
षण्णामभ्यन्तरा राजन्यत्तु मातृगणाश्रितम्
षण्णां तु प्रवरं तस्य शीर्षाणामिह शस्यते
शक्तिं येनासृजद्दिव्यां भद्रशाखामिति स्म ह
इत्येतद्द्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्
तत्र घोरं महद्युद्धं वृत्तं षष्ठ्यां जनाधिप
उपविष्टं ततस्स्कन्दमामुक्तकवचस्रजम्
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम्
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्
अभजत्पद्मनिलया स्वयमेव शरीरिणी
श्रिया जुष्टः पृथुयशास्सुकुमारवपुस्तदा
निषण्णो ददृशे भूतैः पौर्णमास्यां शशी यथा
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्
इदमाहुस्तथा चैव स्कन्दं तत्र महर्षयः
ऋषयः-
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः
स्कन्दः-
किमिन्द्रस्सर्वलोकानां करोतीह तपोधनाः
कथं देवगणांश्चैव पाति सर्वान्सुरेश्वरः
ऋषयः-
इन्द्रो दधाति भूतानां बलं तेजः प्रजास्सुखम्
तुष्टः प्रयच्छति तथा सर्वान्कामान्सुरेश्वरः
दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति
अनुशास्ति च भूतानि कार्येषु बलसूदनः
असूर्ये च भवेत्सूर्यस्तथाऽचन्द्रे च चन्द्रमाः
भवत्यग्निश्च वायुश्च पृथिव्यापश्चकार वै
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्
त्वं च वीर्यबलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः
इन्द्रः-
भवस्वेन्द्रो महाबाहो सर्वेषां नस्सुखावहः
अभिषिञ्चस्व चाद्यैव प्राप्तरूपोऽसि सत्तम
स्कन्दः-
शासि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः
अहं ते किङ्करश्शक्र न मे शक्रत्वमीप्सितम्
इन्द्रः-
बलं तवातुलं वीर त्वं देवानामरीञ्जहि
अवज्ञास्यन्ति मां लोका वीर्यण तव विस्मिताः
स्वे पदे भ्रंशितं वीर बलहीनं पराजितम्
त्वत्तेजसाऽवमंस्यन्ति लोका मां सुरसत्तम
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः
भेदिते च त्वयि तथा लोका मां सुरसत्तम
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा
विग्रहास्सम्प्रवर्तन्ते भूतभेदान्महाबल
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि
तस्मादिन्द्रस्त्वमेवाद्य भविता मा विचारय
स्कन्दः-
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च
करोमि किं च ते शक्र शासनात्तद्ब्रवीहि मे
इन्द्रः-
यदि सत्यमिदं वाक्यं निश्चयाद्काङ्क्षितं त्वया
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु
अभिषिच्यस्व देवानां सेनापत्ये महाबल
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल
स्कन्दः-
दानवानां विनाशाय देवानामर्थसिद्धये
गोब्राह्मणानां रक्षार्थं सेनापत्येऽभिषिञ्च माम्
मार्कण्डेयः-
सोऽभिषिक्तो मघवता सर्वैर्देवगणैस्सह
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः
तत्र तत्काञ्चनं छत्रं ध्रियमाणं व्यराजत
यथैव सुसमिद्धस्य पावकस्याऽऽत्ममण्डलम्
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना
आगम्य मनुजाग्रेषु सह देव्या परन्तप
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः
कीर्त्यते सुमहातेजाः कुमारोऽद्भुतदर्शनः
रुद्रेण शुक्रमुत्सृष्टं येन श्वेतोऽभवद्गिरिः
पावकस्येन्द्रियं श्वेते कृत्तिकाभिर्धृतं नगे
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतांवरम्
अनुप्रविश्य जातेन वह्निं जातोऽप्ययं शिशुः
तत्र जातस्ततस्स्कन्दो रुद्रसूनुस्ततोऽभवत्
रुद्रस्य वह्नेस्स्वाहायां षण्णां स्त्रीणां च तेजसा
जातस्कन्दस्सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्
अरजे वाससी रक्ते वसानः पावकात्मजः
भाति दीप्तवपुश्श्रीमान्रक्ताभ्रेषु इवांशुमान्
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः
विवेश कवचं चास्य शरीरं सहजं तथा
युध्यमानस्य देवस्य प्रादुर्भवति सर्वदा
शक्तिर्वीर्यं बलं तेजः कान्तित्वं सत्यमुन्नतिः
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम्
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्
स्कन्देन सह जातानि सर्वाण्येव जनाधिप
एवं देवगणैस्सर्वैस्सोऽभिषिक्तस्स्वलङ्कृतः
बभौ प्रदीप्तस्सुमहान्परिपूर्णेन्दुदर्शनः
इष्टैस्स्वाध्यायघोषैश्च देवतूर्यवरैरपि
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः
एतैश्चान्यैश्च विविधैस्तुष्टैरिष्टैरलङ्कृतः
क्रीडन्निव तदा देवैरभिषिक्तश्च पावकिः
अभिषिक्तं महासेनमपश्यन्त दिवौकसः
विनिहत्य तमस्सूर्यं यथैवाभ्युदितं तथा
अथैनमभ्ययुस्सर्वा देवसेनास्सहस्रशः
अस्माकं त्वं पतिरिति ब्रुवन्त्यस्सर्वतो दिशः
तास्समासाद्य भगवान्सर्वभूतगणैर्वृतः
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता स्तदा
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा
सस्मार तां देवसेनां या सा तेन विमोक्षिता
इन्द्रः-
अयं तस्याः पतिर्दत्तो विहितो ब्रह्मणा स्वयम्
त्वमस्या विधिवत्पाणिमद्य मन्त्रपुरस्कृतम्
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा
मार्कण्डेयः-
एवमुक्तस्स जग्राह तस्याः पाणिं यथाविधि
बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमासां सुखप्रदाम्
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम्
इत्येवमादिभिर्देवी नामभिः परिकीर्त्यते
यदा स्कन्दः पतिर्लब्धश्शाश्वतो देवसेनया
तदा तमाश्रयल्लक्ष्मीस्स्वयं देवी शरीरिणी
स्त्रिया जुष्टस्सपञ्चम्यां तस्माच्छ्रीः पञ्चमी स्मृता
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः