मार्कण्डेयः-
इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम्
तत्तद्युद्धं महाघोरं षष्ठ्यां वृत्तं जनाधिप
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान्
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाऽऽहृतो महान्
सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह
अपरे गरुडीमाहुस्तयाऽनर्थोऽयमाहृतः
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः
सुपर्णी तु ततश्श्रुत्वा ममायं तनयस्त्विति
उपगम्य शनैस्स्कन्दमाहाहं जननी तव
अथ सप्तर्षयश्श्रुत्वा जातं पुत्रं महौजसम्
तत्यजुष्षट् तदा पत्नीर्विना देवीमरुन्धतीम्
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत
अहं हेतुर्नैतदेवमिति राजन्पुनः पुनः
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः
पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात्
तत्तेन निखिलं सर्वमवबुध्य यथातथम्
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः
स्कन्दं देवं सम्प्रचक्रे महादेवस्य चापि सः
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश
जातकर्मादिकांश्चैव क्रियाश्चक्रे महामुनिः
षण्मूर्ध्नस्तस्य माहात्म्यं कुक्कुटस्य च साधनम्
शक्त्या देव्यास्साधनं च तथा परिषदामपि
विश्वामित्रश्चकारैतत्सर्वलोकहिताय वै
तस्मादृषिः कुमारस्य विश्वामित्रो दृढप्रियः
अन्वजानात्तदा स्वाहारूपान्यत्वं महामुनिः
अथाब्रवीत्तान्सप्तर्षीन्युष्मत्पत्नीष्वयं शिशुः
षट्सु जातो हुतवहात्ते चाग्नेस्त्वग्रतो त्यजन्
देवाः-
स्कन्दं श्रुत्वा ततो देवास्सहिताश्शक्रमब्रुवन्
अविषह्यं बलं स्कन्दं जहि शक्राऽऽशु माचिरम्
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबल
मार्कण्डेयः-
स तानुवाच व्यथितो बालोऽयं सुमहाबलः
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः
कामवीर्यास्तं तु चैनं तथेत्युक्त्वा यथातथम्
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्
अभिनन्दंस्तु तास्सर्वाः प्रस्नुतास्स्नेहविक्लबाः
तास्सम्पूज्य महासेनः कामांश्चासां प्रदाय सः
अपश्यदग्निमायान्तं पितरं बलिनां बली
स तु सम्पूजितस्तेन सह मातृगणेन तम्
परिवार्य महासेनं पुत्रवत् समभाषत
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा
धात्री स्वपुत्रवत्स्कन्दं शूलहस्ताऽभ्यरक्षत
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत
ग्रहास्सोपग्रहाश्चापि ऋषयो मातरस्तथा
हुताशनमुखाश्चापि दीप्ताः पारिषदा गणाः
परिवार्य महासेनं स्थिता मातृगणैस्सह
सन्दिग्धविजयं दृष्ट्वा विजयेप्सुः पुरन्दरः
आरुह्यैरावतस्कन्धं प्रययौ दैवतैस्सह
जिघांसुस्तं महासेनमिन्द्रस्तूर्णतरं ययौ
उग्रं तस्य महावेगं देवानीकं महाप्रभम्
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम्
प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम्
विजिघांसुं तदायान्तं कुमारश्शक्रमन्वयात्
वियत्पतिस्तु शक्रस्तु द्रुतं याति महाबलः
संहर्षयन्देवगणाञ्जिघांसुः पावकात्मजम्
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः
समीपमुपसम्प्राप्तो वह्निपुत्रस्य वासवः
सिंहनादं ततश्चक्रे देवेशस्सहितैस्सुरैः
गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा
अस्य शब्देन महता समुद्धूतोदधिप्रभम्
बभ्राम तत्रतत्रैव देवसैन्यं समन्ततः
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः
सा देवसेना न्यपतत् वेष्टमाना महीतले
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः
प्रच्युतास्सहसा भान्ति चित्रास्तारागणा इव
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्
देवा वज्रधरं त्यक्त्वा ततश्शान्तिमुपागताः
त्यक्तो देवैस्ततश्शक्रो वज्रं स्कन्दे ह्यवासृजत्
तद्विसृष्टं जघानाऽऽशु पार्श्वं स्कन्दस्य दक्षिणम्
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः
युवा काञ्चनसन्नाहश्शक्तिधृग्दिव्यकुण्डलः
यस्स्ववज्रविनाशात्तु विशाखस्तेन सोऽभवत्
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम्
भयादिन्द्रस्ततस्स्कन्दं प्राञ्जलिश्शरणं गतः
तस्याभयं ददौ स्कन्दस्सहसैन्यस्य सत्तम
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन्
स्कन्दस्य पार्षदान्घोराञ्छृणुष्वाद्भुतदर्शनान्
वज्रप्रहाराद्देवस्य जातास्तत्र कुमारकाः
ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः
कुमारस्य विशाखं तु पुत्रत्वे समकल्पयत्
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा
वृतः कन्यागणैस्सर्वैरात्मदीयैश्च पुत्रकैः
मातॄणां प्रेषितानां च भद्रशाखस्तु कोमलः
ततः कुमारं सञ्जातं स्कन्दमाहुर्जना भुवि
रुद्रमग्निममुं स्वाहा प्रदेशेषु महाबलाः
यजन्ति पुत्रकामाश्च पुत्रिणश्च तदा जनाः
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः
किं करोमीति तास्स्कन्दं सम्प्राप्तास्समभाषत
भवेम सर्वलोकस्य वयं मातर उत्तमाः
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथिग्विधाः
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्
अभिनन्दस्व नस्सर्वाः प्रस्नुतास्स्नेहविक्लबाः
तास्सम्पूज्य महासेनः कामांश्चासां प्रदाय सः
अपश्यदग्निमायान्तं पितरं बलिनां बली
स हि स्म पूजितस्तेन सहमातृगणेन तम्
परिवार्य महासेनं रक्षमाणास्तु तस्थिरे
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा
धात्री सा पुत्रवत् स्कन्दं शूलहस्ताभ्यरक्षत
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत
अग्निर्भूत्वा ततश्चैनं छागवक्त्रो बहुप्रजः
रमयामास शैलस्थं बालः क्रीडनकैरिव