मार्कण्डेयः-
आपस्य मुदिता भार्या सा चास्य परमा प्रिया
भूपतिं भूतभर्तारं जनयामास पावकम्
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्
आत्मा भुवनकर्ता तु सोऽध्वरेषु द्विजातिभिः
महतां चैव भूतानां सर्वेषां चैव यः पतिः
भगवान्स महातेजा नित्यं चरति पावकः
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते
आज्यं वहति यो हव्यं सर्वलोकस्य पावकः
अपाङ्गर्भो महाभागः सहपुत्रो महाद्भुतः
भूपतिर्भूमिकर्ता च महतः पतिरुच्यते
मृता वहन्तो हव्यानि तस्याग्नेरग्रजाऽभवन्
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात्
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम्
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्
अग्निः-
अग्निः-
देवानां वह हव्यं त्वमहं देवेषु दुर्बलः
अथर्वन् गच्छ मा क्षिप्रं प्रियमेतत्कुरुष्व मे
मार्कण्डेयः-
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्
मार्कण्डेयः-
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः
नैच्छद्वोढुं हविस्सर्वं शरीरं च परित्यजन्
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा
भूमिं स्पृष्ट्वाऽसृजद्धातून्पृथक्पृथगतीव हि
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च
श्लेष्मणा स्फाटिकं तस्य पित्तान्मरकतं तथा
वातात्कृष्णाभ्रमभवत्त्रिभिरेतैर्बहु प्रजाः
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम्
शरीरं विविधाश्चान्ये धातवोऽस्याभवन्नृप
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा
भृशं जज्वाल तेजस्वी तपसाऽऽप्यायितश्शिखी
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम्
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाऽऽश्रितम्
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः
अथर्वाणं श्रिताल्ँलोकानात्मन्यालोच्य पावकः
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात्
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा
आहूतस्सर्वभूतानां हव्यं वहति सर्वदा
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती
गङ्गा च शतकुम्भा च सरयूर्गन्धसाह्वया
चर्मण्वती मही चैव मेध्या मेधा स्मृतिस्तदा
इरावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी
तमसा नर्मदा चैव नदी गोदावरी तथा
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत
सुप्रयोगा च कावेरी सुरदी मुर्मुरास्तथा
कृष्णा च कृष्णवेण्णा च कलमा शोण एव च
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः
यावन्तः पावकाः प्रोक्तास्सोमास्तावन्त एव च
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः
अग्निः पुत्रान्स्रष्टुकामस्तानेवाऽऽत्मन्यधारयत्
अस्य तान्ब्रह्मणः कायान्निर्हरन्ति हुताशनान्
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्
अप्रमेया यथोत्पन्नाश्श्रीमन्तस्तिमिरापहाः
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः
एक एवैष भगवान्विज्ञेयः परमाङ्गिराः
बहुधा निस्सृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा
इत्येष वंशस्सुमहानग्नीनां कीर्तितो मया
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्