मार्कण्डेयः-
गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
भरत्येष प्रजास्सर्वास्ततो भरत उच्यते
सततं भरतश्रेष्ठ पावकोऽयं महाप्रभः
अग्निर्यस्तु शिवो नाम शक्तिपूजाय नित्यशः
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः
तपसस्तु फलं दृष्ट्वा सम्प्रवृत्तं तपोमयम्
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरन्दरः
उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम्
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम्
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह
प्रततोऽग्निर्महाभाग परिश्रान्तो गवां पतिः
असुराञ्जनयद्घोरान्मर्त्यांश्चैव पृथिग्विधान्
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरास्सृजत्
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः
भानोर्भार्या महाराज बृहद्भासा तु सोमजा
षट्पुत्राञ्जनयामास तदा सा कन्यकाऽभवत्
दुर्बलानां तु भूतानां तनुं यस्सम्प्रयच्छति
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम्
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
अग्निस्स मन्युमान्नाम द्वितीयो भानुजस्सुतः
दर्शे च पौर्णमासे च यस्येह हविरुच्यते
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्
अग्निराग्रयणो नाम भानोरेवान्वयस्स्मृतः
चातुर्मास्येषु नित्यानां हविषां योनिरग्रजः
चतुर्भिस्सहितः पुत्रैर्भानोरेवान्वयस्स्मृतः
चातुर्मास्येषु नित्यानां हविषां योनिरस्तु सः
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तदा
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान्
पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः
पर्जन्यसहितश्श्रीमानग्निर्वैश्वानरस्तु सः
अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तपसस्सुतः
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति
तं प्राहुरध्यात्मविदो विश्वकं नाम पावकम्
अन्तरग्निश्रितो यो हि भुक्तं पचति देहिनाम्
स जज्ञे विश्वभुङ्नाम सर्वलोकेश्वरो वरः
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः
ब्राह्मणाः पूजयन्तो यं पाकयज्ञेषु पावकम्
प्रथितो गोपतिर्नाम नदी भार्याऽभवत्प्रिया
तस्मिन्सर्वाणि कर्माणि क्रियन्ते सर्वसेतवः
बडबामुखः पिबत्यापो योऽसौ परमदारुणः
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः
उदग्भागे हविर्यस्य गृहे नित्यं प्रदीयते
ततस्स्विष्टं भवेद्ग्राह्यं स्विष्टकृत्परमस्स्मृतः
कन्या सा हरिणी नाम हिरण्यकशिपोस्सुता
कर्मणाऽसौ बभौ भार्या स वह्निस्स प्रजापतिः
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्
तस्य सन्निहितो नाम शब्दरूपस्य साधनः
शुक्लकृष्णवपुर्देवो यो बिभर्ति हुताशनः
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः
कपिलं परमर्षिं च यं प्राहुर्यतयस्सदा
अग्निस्तु कपिलो नाम साङ्ख्ययोगप्रवर्तकः
योऽग्निर्यच्छति भूतानि येन चेष्टन्ति नित्यदा
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते
इमानन्यांश्चावसृजन्पावकान्प्रथितौजसः
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुद्बलान्
संस्पृशेयुर्यदाऽन्योन्यं कथञ्चिद्वायुनाऽग्नयः
इष्टिरष्टाकपालेन कार्या स्याच्छुचयेऽग्नये
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल
इष्टिरष्टाकपालेन कार्या स्याद्वीतयेऽग्नये
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये
अग्निर्गार्हपत्यस्तु स्पृशेदाहवनीयकम्
इष्टिरष्टाकपालेन कार्या स्याद्विप्रचेऽग्नये
वैद्युताग्निर्यदा त्वग्निं संस्पृशेदाग्निहौत्रिकम्
इष्टिरष्टाकपालेन कार्या ह्याग्निमतेऽग्नये
अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम्
इष्टिरष्टाकपालेन कार्या त्वस्य चयेऽग्नये
मृते स्पशेच्च यश्चाग्निमशुचिर्वालिशो नरः
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु वै द्विजः
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये
दर्शश्च पौर्णमासश्च यस्य तिष्ठेत्प्रतिष्ठितः
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये