मार्कण्डेयः-
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः
अग्निराङ्गिरसश्चैव च्यवनस्तीव्रवर्चकः
अचरत्स तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम्
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभाकरः
समिद्धोऽग्निश्शिरस्तस्य बाहू सूर्यनिभौ तथा
तन्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत
पञ्चवर्णस्स तपसा कृतस्तैः पञ्चभिर्जनैः
पाञ्चजन्यश्श्रुतो वेदे पञ्चवंशकरस्तु सः
दशवर्षसहस्राणि तपस्तप्त्वा महातपाः
जनयत्पावकान्घोरान् पितॄणां स प्रजास्सृजन्
बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तपसा हरिम्
शिवं नाभ्यां बलादिन्द्रं प्राणाद्वायुं च भारत
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान्
बृहदूर्जस्य प्रणिधाः काश्यपस्य बृहत्तरः
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौरभः
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्च वंशजाः
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान्
अभीममतिभीमं च भीमं भीमबलं बलम्
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्ततः
सुमित्रं मित्रवन्तं च मित्रघ्नं मित्रवर्धनम्
मित्रावरुणमित्येतान्देवानभ्यसृजत्ततः
सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम्
सुराणामपि हर्तारं पञ्चैतानसृजत्ततः
त्रिविधं सहिता ह्येते पञ्चपञ्च पृथक्पृथक्
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतान्यज्ञयाजिनः
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च
बहिर्वेद्यां तदादानं कुशलैस्सम्प्रकीर्तितम्
तत्रैते नोपसर्पन्ति यत्र चाग्निश्चितोऽभवत्
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते
मन्त्रैः प्रशमितास्त्वेते नेष्टं मुष्णन्ति यज्ञियम्
तपस्ये बृहदुक्थस्य पुत्रो भूमिमुपाश्रितः
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरीड्यते
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते
मित्रविन्दा हि चैतस्य हविरध्वर्यवो विदुः
एतैस्सह महाभाग तपस्तेजस्विभिर्नृप
मुमुदे परमप्रीतस्सह पुत्रैर्महायशाः