वैशम्पायनः-
युधिष्ठिरः-
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम्
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महामुनिः
अग्निर्यथा चैक एव बहुत्वं चास्य कर्मसु
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्
कुमारश्च यथोत्पन्नो यथा चाग्नेस्सुतोऽभवत्
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च
एतदिच्छाम्यहं त्वत्तश्श्रोतुं भार्गवसत्तम
कौतूहलसमाविष्टो याथातथ्यं महामुने
मार्कण्डेयः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः
यथा च भगवानग्निस्स्वयमेवाङ्गिराऽभवत्
सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च
आश्रमस्थं महाभागो हव्यवाहं विशेषयन्
तथा तु भूत्वा स तदा जगत्सर्वं प्रकाशयत्
तपश्चरंश्च हुतभुक्सन्तप्तश्च स्वतेजसा
भृशं ग्लानश्च तेजस्वी न किञ्चित्प्रतिजज्ञिवान्
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः
अन्योऽग्निरिव लोकानां ब्रह्मणा सम्प्रवर्तितः
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्
सोपासर्पच्छनैर्भीतस्तमुवाच ततोऽङ्गिराः
अङ्गिराः-
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः
विज्ञातश्चासि लोकेषु त्रिषु सस्थाणुचारिषु
त्वमग्ने प्रथमस्सृष्टो ब्रह्मणा तिमिरापहः
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद
अग्निः-
नष्टकीर्तिरहं लोके भवाज्जातो हुताशनः
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव
भविष्यामि द्वितीयोऽहं प्राजापत्यस्तथैकतः
अङ्गिराः-
कुरु पुण्यं प्रजासु त्वं भवाग्निस्तिमिरापहः
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा
मार्कण्डेयः-
तच्छ्रुत्वाऽङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत्
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसस्सुतः
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम्
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा
तत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्वपि
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह
तस्यापि वसुधा भार्या प्रजास्तस्यापि मे शृणु
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः
प्रजासु तासु सर्वासु रूपेणानुपमाऽभवत्
देवी सरस्वती नाम प्रथमाऽङ्गिरसस्सुता
भूतानामेव सर्वेषां यस्यां रागस्तथाऽभवत्
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसस्सुता
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसस्सुता
यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते
एकानङ्गेति यामाहुश्चतुर्थीमङ्गिरस्सुताम्
पञ्चम्यर्चिष्मती भाति हविर्भिश्च हविष्मती
षष्ठीं चाङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम्
महामखेष्वाङ्गिरसी दीप्तिमत्सु महाद्युतिः
महामतीति विख्याता सप्तमी कथ्यते सुता
बृहस्पतेश्चान्द्रमसी भार्या भूत्वा यशस्विनी
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम्
आहुतिष्वेव यस्याग्रे हविराज्यं विधीयते
सोऽग्निर्बृहस्पतेः पुत्रश्शंयुर्नाम महाप्रभः
चातुर्मास्येषु यस्येष्ट्या अश्वमेधेऽग्रजः पशुः
दीप्तज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान्
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः
प्रथमेनाऽऽज्यभागेन पूज्यते सोऽग्निरध्वरे
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते
पौर्णमास्येषु सर्वेषु हविराज्यं स्रुवोद्यतम्
भरतो नामतस्सोऽग्निर्द्वितीयश्शंयुजस्सुतः
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका
भारतो भरतस्याग्नेः पावकस्तु प्रजायते
महानत्यर्थमहितस्तथा भरतसत्तम
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः
प्राहुराज्येन यस्येज्यां सोमस्येव द्विजाश्शनैः
हविषा यो द्वितीयेन सोमेन सह युज्यते
रथप्रभू रथध्वानः कुम्भरेतास्स उच्यते
सरय्वां जनयत्सिद्धिं भानुं भाभिस्समावृणोत्
आग्नेयमनयद्विद्वानाह्वानेष्वेव कथ्यते
यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्
विपापोऽग्निस्सुतस्तस्य योज्यस्समयकर्मसु
अक्रोशतां नराणां हि यः करोति हि निष्कृतिम्
अग्निस्स निष्कृतिर्नाम शोभयत्यभिसेवितः
अनुकूजन्ति येनेह वेदनार्तास्स्वयं जनाः
तस्य पुत्रस्स्वनो नाम पावकस्सरुजस्करः
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्
अन्तराग्निश्श्रुतो यो हि भुक्तं पचति देहिनाम्
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत
ब्रह्मचारी यतात्मा च सततं विपुलप्रभः
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया
तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मभिस्सदा
बडबामुखः पिबत्यापो योऽसौ परमदारुणः
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमस्स्मृतः
यः प्रशान्तेषु भूतेषु आविर्भवति पावकः
क्रोधस्स तु महातेजा विज्ञेयस्सर्वदेहिषु
क्रोधस्य तु रथो जज्ञे मन्यती चाथ पुत्रिका
हाहेति दारुणा क्रुद्धा सर्वभूतेषु तिष्ठति
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन
अतुलत्वात्कृतो देवैर्नाम्ना देवस्तु पावकः
दर्पान्मां धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः
समरे नाशयेच्छत्रूनमोघो नाम पावकः
अक्थ्यो नाम महाभागस्त्रिभिरुक्थैरभिष्टुतः
महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः