मार्कण्डेयः-
गुरू निवेद्य विप्राय तौ मातापितरावुभौ
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत्
व्याधः-
प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम्
यदर्थमुक्तो भगवान्गच्छ त्वं मिथिलामिति
पतिशुश्रूषरतया दान्तया सत्यशीलया
मिथिलायां वसन्व्याधस्स ते धर्मान्प्रवक्ष्यति
कौशिकः-
पतिव्रतायास्सत्यायाश्शीलाढ्याया यतव्रत
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः
व्याधः-
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो
दृष्टमेव तया सम्यगेकपत्न्या न संशयः
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज
त्वया विनिकृता माता पिता च द्विजसत्तम
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम्
तव शोकेन वृद्धौ द्वावन्धौ स्यातां तपस्विनौ
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगान्महान्
सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय
तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम्
कौशिकः-
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचारसमन्वित
दैवतप्रतिमो हि त्वं यस्स्याद्धर्ममनुव्रतः
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः
व्याधः-
मातापित्रोस्सकाशं हि गत्वा त्वं द्विजसत्तम
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्
अतः परमहं धर्मं नान्यं पश्यामि कञ्चन
कौशिकः-
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतिस्त्वया
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः
एको नरसहस्रेषु धर्मवान्विद्यते न वा
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम
पतमानो हि नरके भवताऽस्मि समुद्धृतः
भवितव्यमथैवं च यद्दृष्टोऽसि मयाऽनघ
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा
सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह
मातापितृभ्यां शुश्रूषां करोमि वचनात्तव
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम्
दुर्ज्ञेयश्शाश्वतो धर्मश्शूद्रयोनौ तु वर्तता
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम्
येन कर्मविशेषेण प्राप्तेयं शूद्रता तव
एतदिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम्
कामयानस्य मे शंस सर्वं त्वं प्रयतात्मवान्
व्याधः-
अनतिक्रमणीया वै ब्राह्मणा वै द्विजोत्तम
शृणु धर्मं यथावृत्तं पूर्वदेहे ममानघ
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः
आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम्
कश्चिद्राजा मम सखा धनुर्वेदपरोऽभवत्
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः
सहितो योधमुख्यैश्च मन्त्रिभिश्चाभिसंवृतः
ततोऽभ्यघ्नन्मृगास्तत्र सुबहूनाश्रमं प्रति
अथ क्षिप्तश्शरो घोरो मयाऽपि द्विजसत्तम
ताडितश्च मुनिस्तेन शरेणाऽऽनतपर्वणा
मुनिः-
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्
नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम्
व्याधः-
मन्वानस्तं मृगं चाहं सम्प्राप्तस्सहसा मुनिम्
अपश्यं तं मुनिं विद्धं शरेणानतपर्वणा
तमुग्रतपसं विप्रं निष्टनन्तं महीतले
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः
अजानता कृतमिदं मयेत्यहमथाब्रुवम्
मुनिः-
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज
व्याधः-
एवं शप्तोऽहमृषिणा तदा द्विजवरात्मज
अहं प्रासादयमृषिं गिरा वाक्यविशारदम्
अजानता कृतमिदं कार्यं तन्मे मयाऽद्य वै
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति
ऋषिः-
नान्यथा भविता शाप एवमेतन्न संशयः
आनृशंस्यात्त्वहं किञ्चित्कर्ताऽनुग्रहमद्य वै
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः
तयोश्शुश्रूषया सिद्धिं महतीं समवाप्स्यसि
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि
भूत्वा च धार्मिको व्याधः पित्रोश्शुश्रूषणे रतः
शापक्षये च निर्वृत्ते भविताऽसि पुनर्द्विजः
व्याधः-
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा
प्रसादश्च कृतस्तेन ममैव वदतां वर
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम
आश्रमं च मया नीतो न च प्राणैर्वियुज्यते
एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत्
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम
ब्राह्मणः-
एवमेतानि पुरुषा दुःखानि च सुखानि च
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि
दुष्करं हि कृतं कर्म जानता जातिमात्मनः
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै
कश्चित्कालो मृष्यतां वै ततोऽसि भविता द्विजः
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु
डाम्भिको दुष्कृतप्रायश्शूद्रेण सदृशो भवेत्
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः
तं ब्राह्मणमहं मन्ये वृत्तेन भविता द्विजः
कर्मदोषेण विषमां गतिमाप्तोऽसि दारुणाम्
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः
लोकवृत्तान्तवृ्त्तज्ञा नित्यं धर्मपरायणाः
व्याधः-
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद्विज्ञानसामर्थ्यं न बालैस्समतां व्रजेत्
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते स्वल्पबुद्धयः
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि सर्वदैकस्य शोकस्थानं हि विद्यते
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम्
शोकेन न भवेत्किञ्चित्केवलं परितप्यते
परित्यजन्ति ये दुःखं सुखं वाऽनन्तरं नराः
सर्वदा सुखमेधन्ते ज्ञानतृप्ता मनीषिणः
असन्तोषपरा मूढास्सन्तोषं यान्ति पण्डिताः
असन्तोषस्य नास्त्यन्तस्तुष्टस्य परमं सुखम्
न शोचन्ति गताध्वानः पश्यन्ति परमां गतिम्
न विषादे मनः कार्यं विषादो विषमुत्तमम्
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः
यं विषादोऽभिभवति विषमे समुपस्थिते
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम्
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे
अशोचंस्तारयेदेव युक्तश्च व्यसनी भवेत्
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम्
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम
ब्राह्मणः-
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव
पापान्निवृत्तश्च सदा ज्ञानवृद्धोऽसि धर्मवित्
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर
मार्कण्डेयः-
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः
स तु गत्वा द्विजस्सर्वां शुश्रूषां कृतवांस्तदा
मातापितृभ्यामन्धाभ्यां यथान्यायं सुशिक्षितः
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर
पृष्टवानसि यत्तात धर्मं धर्मभृतां वर
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः
युधिष्ठिरः-
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्
सर्वधर्मविदां श्रेष्ठ कथितं द्विजसत्तम
सुखश्राव्यं त्वया विद्वन्मुहूर्तमिव मे गतम्
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम्