मार्कण्डेयः-
एवमुक्तस्तु विप्रस्स धर्मव्याधेन भारत
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम्
ब्राह्मणः-
महाभूतानि यान्याहुः पञ्च धर्मविदां वर
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद
व्याधः-
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान्
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
एते गुणाः पञ्च भूमेस्सर्वेभ्यो गुणवत्तराः
शब्दस्स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत
शब्दस्स्पर्शश्च रूपं च तेजसोऽपि गुणास्त्रयः
शब्दस्स्पर्शश्च वायोस्तु शब्दश्चाकाश एव च
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु
उक्ता वै सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः
अन्योन्यं नातिवर्तन्ते सम्यक्च भवति द्विज
यदा तु विषमं भावमाचरन्ति परावराः
तदा देही देहमन्यं व्यतिरोहति कायतः
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः
तत्र तत्र च दृश्यन्ते धातवः पाञ्चभौतिकाः
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम्
इन्द्रियैर्ग्राह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु
इन्द्रियाणि तदा देही धारयन्निह तप्यते
लोके विततमात्मानं लोकं चात्मनि पश्यति
परापरज्ञो यश्शक्तस्सर्वभूतानि पश्यति
पश्यतस्सर्वभूतानि सर्वावस्थासु सर्वदा
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते
ज्ञानमूलादिकं क्लेशमतिवृत्तस्य मोहजम्
लोको बुद्धिप्रकाशेन ज्ञानमार्गेण गम्यते
अनादिनिधनं जन्तुमात्मयोनिं सदाऽव्ययम्
अनौपम्यममूर्तं च भगवानाह बुद्धिमान्
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि
तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ
निगृहीतविसृष्टानि स्वर्गाय नरकाय च
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्
एतन्मूलं हि तपसस्स्वर्गस्य नरकस्य च
इन्द्रियाणां प्रसङ्गेन दोषमार्च्छत्यसंशयम्
सन्नियम्य तु तान्येव ततस्सिद्धिमुपाश्नुते
षण्णामात्मनि योज्यानामैश्वर्यं योऽधितिष्ठति
न स पापैर्न चानर्थैस्संयुज्येत जितेन्द्रियः
रथश्शरीरं पुरुषस्य दृष्टो ह्यात्मा नियन्तेन्द्रियाण्याहुरश्वान्
तैरप्रमत्तैः कुशलो यथाऽश्वैर्दान्तैस्सुखं याति पथीव धीरः
षण्णामात्मनि दृष्टानामिन्द्रियाणां प्रमाथिनाम्
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम्
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते
तदस्य बुद्धिं हरते नावं वायुरिवाम्भसि
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमम्
तेष्वध्यापयिताऽऽध्यायी विन्दते ध्यानजं फलम्