मार्कण्डेयः-
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर
प्रत्युवाच यथा प्रश्नं तच्छृणुष्व नराधिप
व्याधः-
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते
तत्प्राप्य कामं भजते रोषं च द्विजसत्तम
ततस्तदर्थं यतते कर्म चारभते महत्
इष्टानां रूपगन्धानामभ्यासं च निषेवते
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्
ततो लोभः प्रभवति द्रोहश्च तदनन्तरम्
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च
व्याजेन चरते धर्ममर्थं व्याजेन रोचते
व्याजेन सेव्यमानेषु एतेषु द्विजसत्तम
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम
उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितः
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषतः
पापं चिन्तयते चापि ब्रवीति च करोति च
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः
स तेनासुखमाप्नोति परत्र च विहन्यते
पापात्मा भवति ह्येवं धर्मलाभं च मे शृणु
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलस्सुखदुःखेषु साधूंश्चाप्युपसेवते
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते
कौशिकः-
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते
दिव्यप्रभावस्सुमहानृषिरेव मतो हि मे
व्याधः-
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजस्सदा
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणाम्
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे
इदं विश्वं जगत्सर्वमजगद्वाऽपि सर्वशः
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत्
महाभूतानि खं वायुरग्निरापस्तथैव भूः
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः
तेषामपि गुणास्सर्वे गुणवृत्तिः परैव सा
पूर्वपूर्वगुणास्सर्वे क्रमशो गुणितास्त्विह
षष्ठस्तु चेतना या तु मन इत्यभिधीयते
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम्
इन्द्रियाणि तु पञ्चैव रजस्सत्त्वं तमस्तथा
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञितः
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैस्तु संवृतः
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः
एतत्ते सर्वमाख्यातं किं भूयश्श्रोतुमिच्छति