मार्कण्डेयः-
व्याधः-
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
यदहं ह्याचरे कर्म घोरमेतदसंशयम्
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरातनम्
पुरा कृतस्य पापस्य कर्मदोषो भवत्ययम्
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्
विधिना हि हते पूर्वं निमित्तं घातको भवेत्
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
येषां हतानां मांसानि विक्रीणीमो वयं द्विज
तेषामपि भवेद्धर्म उपभोगेन भक्षणात्
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात्
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज
अहन्यहनि पच्येते सहस्रे द्वे तु वै गवाम्
स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन्
यदि नैवाग्नयो ब्रह्मन्मांसकामाः पुराऽभवन्
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यस्सदा
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात्
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः
सत्यानृते विनिश्चित्य तत्रापि विधिरुच्यते
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम
पुरा कृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा
स्वधर्मं त्यजतो ब्रह्मन्नधर्म इति निर्णयः
स्वधर्मे निरतो यस्तु स धर्म इति निश्चयः
कुले हि विहितं कर्म देही तन्न विमुञ्चति
धात्रा चायं विधिर्दृष्टो बहुधा कर्मनिर्णये
द्रष्टव्यस्तु भवेद्ब्रह्मन्क्रूरकर्मणि वर्तते
कथं कर्म शुभं कुर्यात्कथं मुच्येत्पराभवात्
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा
द्विजातिपूजने चाहं धर्मे च निरतस्सदा
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता
कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून्
जीवानन्यान्सुबहुशस्तत्र किं प्रतिभाति ते
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च
वृक्षांस्तथौषधीश्चैव छिन्दन्ति पुरुषा द्विज
जीवा हि बहुशो ब्रह्मन्वृक्षेषु च फलेषु च
उदके बहवश्चापि तत्र किं प्रतिभाति ते
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्रतिजीवनैः
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्र किं प्रतिभाति ते
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्
पद्भ्यां घ्नन्ति ब्रह्मंस्तत्र किं प्रतिभाति ते
उपविष्टाश्शयानाश्च घ्नन्ति जीवाननेकशः
अज्ञानादथवा ज्ञानात्तत्र किं प्रतिभाति ते
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा
के न हिंसन्ति जीवांश्च लोकेऽस्मिन्द्विजसत्तम
बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः
अहिंसायां तु निरता यतयो द्विजसत्तम
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्
आलक्ष्यन्ते हि पुरुषाः कुले जाता महागुणाः
महाघोराणि कर्माणि कृत्वा लज्जन्ति नैव च
सुहृदस्सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः
सम्यक्प्रवृत्तान्पुरुषान् सम्यगेव न पश्यति
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि
गुरूंश्चैवापि निन्दन्ति मूढा निश्चितमानिनः
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत्