मार्कण्डेयः-
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ
चिन्तयानस्स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्
कौशिकः-
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम्
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम्
मार्कण्डेयः-
इति सञ्चिन्त्य मनसा श्रद्दधानस्स्त्रिया वचः
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैश्शुभैः
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च
ततो जगाम मिथिलां जनकेन सुरक्षिताम्
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम्
गोपुराट्टालकवतीं हर्म्यप्राकारशोभिताम्
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्युताम्
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम्
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्युताम्
हृष्टपृष्टजनाकीर्णां नित्योत्सवसमाकुलाम्
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणस्समतिक्रमन्
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम्
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम्
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः
आजगाम यतो विप्रस्स्थित एकान्त आसने
व्याधः-
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम्
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः
मार्कण्डेयः-
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशहर्षितः
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम्
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत्
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति
प्रविश्य तु गृहं रम्यमासनेनाभिपूजितः
अर्घ्येण च स वै तेन व्याधेन द्विजसत्तमः
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः
ततस्सुखोपविष्टस्तं व्याधं वचनमब्रवीत्
कौशिकः-
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे
अनुतप्ये भृशं तात तव घोरेण कर्मणा
व्याधः-
कुलोचितमिदं कर्म पितृपैतामहं मम
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम्
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च
देवतातिथिभृत्यानामवशिष्टेन वर्तये
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम्
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्
दण्डनीतिस्त्रयी विद्या तेन लोको भवन्त्युत
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः
ब्रह्मचर्यं तपो मन्त्रास्सत्यं च ब्राह्मणे सदा
राजाऽनुशास्ति धर्मेण स्वकर्मनिरताः प्रजाः
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु
हन्तव्यं हि सदा राज्ञा प्रजानामथ पालने
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्
दण्ड्यं दण्डे निक्षिप्य न ग्लापयति धार्मिकम्
युक्तचारोऽपि नृपतिस्सर्वं धर्मेण पश्यति
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्
सर्वेषामेव वर्णानां त्राता राजा भवत्युत
परेण निहतान्ब्रह्मन्वराहमहिषानहम्
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम्
भक्षयामि च मांसानि ऋतुगामी तथा ह्यहम्
सदोपवासी च तथा नक्तभोजी तथा द्विज
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्
प्राणिहिंसापरश्चापि भवते धार्मिकः पुनः
व्यभिचारान्नरेन्द्राणां धर्मस्सङ्कीर्यते महान्
अधर्मो वर्तते चापि सङ्कीर्यन्ते ततः प्रजाः
तथाऽन्धा वामनाः कुब्जास्स्थूलशीर्षास्तथैव च
क्लीबाश्चान्याश्च जायन्ते बधिरा लम्बचूचुकाः
पार्थिवानामधर्मत्वात्प्रजानामभवात्सदा
स एष राजा जनकस्सर्वं धर्मेण पश्यति
अनुगृह्णन्प्रजास्सर्वास्स्वधर्मनिरतास्सदा
पात्येष राजा जनकः पितृवज्जनसत्तम
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः
सर्वान्सुपरिणीतेन कर्मणा योजयाम्यहम्
ये जीवन्ति स्वधर्मेण सम्भुज्यन्ते च पार्थिवाः
न किञ्चिदुपजीवन्ति दान्ता उत्थानशीलिनः
शक्त्या च दानं सततं तितिक्षा धर्मनित्यता
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पौरुषे
मृषावादं परिहरेत्कुर्यात्प्रियमनिन्दितः
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत्
न मुह्येत सुकृच्छ्रेषु न च धर्मं परित्यजेत्
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न तदाचरेत्
स कल्याणमभिध्यायेत्तत्राऽऽत्मानं न योजयेत्
न पापं प्रति पापस्स्यात्साधुरेव सदा भवेत्
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति
कर्म चैतदसाधूनां वृजिनानां हि साधकम्
न धर्मोऽस्तीति मन्वानाश्शुचीनवहसन्ति ये
अश्रद्दधाना धर्मज्ञांस्तेन नश्यन्त्यसंशयम्
महादृतिरिवाध्मातः पापो भवति नित्यदा
साधुस्सन्नतिमानेव सर्वत्र द्विजसत्तम
मूढानामवलिप्तानामसारं भाषितं भवेत्
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान्
न लोके राजते मूर्खः केवलात्मप्रशंसया
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
न कश्चिद्गुणसम्पन्नः प्रकाशो न च दृश्यते
विकर्मणा तप्यमानः पापाद्धि परिमुच्यते
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते
कर्मणा येन केनेह पापात्मा द्विजसत्तम
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते
पापानि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात्
धर्मो ब्रह्मन्नुदति ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात्
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः
चिकीर्षेन्नेव कल्याणं श्रद्दधानोऽनसूयकः
वसनस्येव च्छिद्राणि साधूनां विवृणोति यः
अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः
यथाऽऽदित्यस्समुद्यन्वै तमस्सर्वं व्यपोहति
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम
तस्मात्तौ विदुषा विप्र वर्जनीयौ प्रयत्नतः
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः
अधर्म्या धर्मरूपेण तृणैः कूपा इवाऽऽवृताः
येषां पञ्च पवित्राणि प्रलापा धर्मसंश्रिताः
सर्वं हि विद्यते तेषु शिष्टाचारास्सुदुर्लभाः
मार्कण्डेयः-
स च विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत
शिष्टाचारं कथमहं विद्यामिति नरोत्तम
कौशिकः-
पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा
एतन्महामते व्याध तद्ब्रवीहि यथातथम्
व्याधः-
यज्ञो दानं तपो वेदास्सत्यं च द्विजसत्तम
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्
धर्म इत्येव सन्तुष्टास्ते शिष्टाश्शिष्टसम्मताः
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम्
आचारपालनं चैव द्वितीयं शिष्टलक्षणम्
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः
यामयं लभते तुष्टिं सा न शक्याऽन्यतोऽन्यथा
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषत्त्यागश्शिष्टाचारेषु नित्यदा
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते
ये तु शिष्टास्सुनियताश्श्रुतित्यागपरायणाः
धर्मं पन्थानमारूढास्सत्यधर्मपरायणाः
नियच्छन्ति परां बुद्धिं शिष्टाचारसमन्विताः
उपाध्यायमते युक्ता धृत्या धर्मार्थदर्शिनः
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम्
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान्
शिष्टाचारे भवेत्साधू रागश्शुक्ल इवाम्बरे
अहिंसा सत्यवचनं सर्वभूतहितं परम्
अहिंसा परमो धर्मस्स च सत्ये प्रतिष्ठितः
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्
आचारश्च सतां धर्मस्सन्तो ह्याचारलक्षणाः
यो यथाप्रकृतिर्जन्तुस्स स्वां प्रकृतिमश्नुते
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान्
आरम्भो न्याययुक्तो यस्स हि धर्म इति स्मृतः
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम्
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः
ऋजवश्शमसम्पन्नाश्शिष्टाचारा भवन्ति ते
त्रैविद्यवृद्धाश्शुचयो वृत्तवन्तो यशस्विनः
गुरुशुश्रूषवो दान्ताश्शिष्टाचारा भवन्त्युत
तेषामहीनसत्वानां दुष्कराचारकर्मणाम्
स्वैः कर्मभिस्संस्कृतानां घोरत्वं सम्प्रणश्यति
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्
धर्म्यं धर्मेण पश्यन्तस्स्वर्गं यान्ति मनीषिणः
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः
श्रुतवृत्तोपसम्पन्नास्ते सन्तस्स्वर्गगामिनः
वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम्
धारणं चापि वेदानां तीर्थानामवगाहनम्
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम्
सर्वभूतदयावन्तोऽप्यहिंसानिरतास्सदा
परुषं न प्रभाषन्ते सदा सन्तो द्विजातयः
शुभानामशुभानां च कर्मणां फलसंश्रयम्
विपाकमभिजानन्ति ते शिष्टाश्शिष्टसम्मताः
न्यायोपेता गुणोपेतास्सर्वलोकहितैषिणः
सन्तस्स्वर्गजितश्शक्त्या सन्निविष्टाश्च सत्पथे
दातारस्संविभक्तारो दीनानुग्रहकारिणः
सर्वभूतदयावन्तस्ते शिष्टाश्शिष्टसम्मताः
सद्भिः पूज्याश्श्रुतधनास्तथैव च तपस्विनः
दाननित्याश्शुभाल्ँलोकान्प्राप्नुवन्तीह च श्रियम्
पीडया च कलत्रस्य भृत्यानां च समाहिताः
अतिशक्त्या प्रयच्छन्ति सन्तस्सद्भिस्समागताः
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च
एवं सन्तो वर्तमानास्त्वेधन्ते शाश्वतीस्समाः
अहिंसा सत्यवचनमानृशंस्यमथाऽऽर्जवम्
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमश्शमः
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः
त्रीण्येव तु वराण्याहुस्सतां वृत्तमनुस्मरन्
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत्
सर्वत्र च दयावन्तस्सन्तः करुणवेदिनः
गच्छन्तीह सुखं तुष्टा धर्म्यं पन्थानमुत्तमम्
शिष्टाचारा महात्मानो येषां धर्मस्सुनिश्चितः
अनसूया क्षमा शान्तिस्सन्तोषः प्रियवादिता
कामक्रोधपरित्यागः शिष्टाचारनिषेवितः
कर्मिणश्श्रुतसम्पन्नास्सतां मार्गगतास्तथा
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान्
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः
अतिपुण्यानि दानानि तानि द्विजवरात्मज
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ