मार्कण्डेयः-
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः
तपस्वाध्यायशीलश्च कौशिको नाम भारत
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः
उपरिष्टाच्च वृक्षस्य बलाका सन्न्यलीयत
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि
तामवेक्ष्य ततः क्रुद्धस्समवध्यायत द्विजः
तां बलाकां महाराज निलीनामगमूर्धनि
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता
अवध्याता च विप्रेण न्यपतद्वसुधातले
ब्राह्मणः-
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम्
कारुण्यादथ सन्तप्तः पर्यशोचत् तदा द्विजः
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः
मार्कण्डेयः-
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ
प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः
देहीति याचमानो वै तिष्ठेत्युक्तस्स्त्रिया तु सः
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम्
भर्ता प्रविष्टस्सहसा तस्या भरतसत्तम
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम्
पाद्यमाचमनीयं वै ददौ भर्त्रे तदाऽऽसनम्
प्रह्वा पर्यचरच्चाथ भर्तारमसितेक्षणा
आहारेणाथ भक्ष्यैश्च वाक्यैस्सुमधुरैस्तथा
उच्छिष्टं भुञ्जते भर्तुस्सा तु नित्यं युधिष्ठिर
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी
न कर्मणा न मनसा नात्यश्नाति न चापिबत्
तं सर्वभावोपगता पतिशुश्रूषणे रता
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा
शुश्रूषणे रता नित्यं सततं संयतेन्द्रिया
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम्
कुर्वन्ती पतिशुश्रूषां सस्माराथ शुभेक्षणा
व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम
भिक्षामादाय विप्राय निर्जगाम यशस्विनी
ब्राह्मणः-
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने
उपरोधं कृतवती न विसर्जितवत्यसि
मार्कण्डेयः-
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत्
साध्वी-
क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत्
स चापि क्षुधितश्श्रान्तः प्राप्तश्शुश्रूषितो मया
ब्राह्मणः-
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवा भुवि
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया
ब्राह्मणाश्चाग्निसदृशा दहेयुः पृथिवीमपि
सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः
साध्वी-
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ
जानामि तेजो विप्राणां महाभाग्यं च धीमताम्
अपेयस्सागरः क्रोधात्कृतो हि लवणोदकः
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति
कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान्
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम्
क्रोधस्सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम्
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ
पतिशुश्रूषया धर्मो यस्स मे रोचते द्विज
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम्
बलाका हि त्वया दग्धा रोषात्तद्विदितं मम
क्रोधश्शत्रुश्शरीरस्थो मनुष्याणां द्विजोत्तम
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः
यो वदेदिह सत्यानि गुरून्सन्तोषयिष्यति
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः
जितेन्द्रियो धर्मपरस्स्वाध्यायनिरतश्शुचिः
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः
योऽध्यापयेदधीयेद्वा याजयेत यजेत वा
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः
ब्राह्मचारी वदान्यो योऽप्यधीयानो द्विजोत्तम
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्
सत्यं तथा व्याहरतां नानृते रमते मनः
धनं तु ब्राह्मणस्याऽऽहुस्स्वाध्यायं दममार्जवम्
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः
दुर्ज्ञेयश्शाश्वतो धर्मस्स च सत्ये प्रतिष्ठितः
श्रुतिप्रमाणो धर्मस्स्यादिति वृद्धानुशासनम्
बहुधा दृश्यते धर्मस्सूक्ष्म एव द्विजोत्तम
भवानपि च धर्मज्ञस्स्वाध्यायनिरतश्शुचिः
न तु तत्त्वेन भगवन्धर्मं वेत्सीति मे मतिः
मातापितृभ्यां शुश्रूषुस्सत्यवादी जितेन्द्रियः
मिथिलायां वसन्व्याधस्स ते धर्मान्प्रवक्ष्यति
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम
व्याधः परमधर्मात्मा स ते च्छेत्स्यति संशयान्
दुरुक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित
स्त्रियो ह्यवध्यास्सर्वेषां ये च धर्मविदो जनाः
ब्राह्मणः-
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने
उपालम्भस्त्वयाऽप्युक्तो मम निश्रेयसं प्रति
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने
धन्या त्वमसि कल्याणि यस्यास्ते वृत्तमीदृशम्
मार्कण्डेयः-
तया निसृष्टो निर्गत्य तमेवावसथं ययौ
विनिन्दन्स स्वमात्मानं कौशिको नरसत्तमः