मार्कण्डेयः-
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः
स तपोऽतप्यत महन्महावीर्यपराक्रमः
अतिष्ठदेकपादेन कृशो धमनिसन्ततः
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्
धुन्धुः-
देवदानवयक्षाणां सर्वगन्धर्वरक्षसाम्
अवध्योऽहं भवेयं वै वर एष वृतो मया
मार्कण्डेयः-
एवं भवतु गच्छेति तमुवाच पितामहः
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह
स तु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपाद्रवत्
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः
बबाध सर्वानसकृद्देवान् विष्णुं च वै भृशम्
समुद्रवालुकापूर्णे उज्जानक इति स्मृतः
आगम्य तं स दुष्टात्मा तं देशं भरतर्षभ
बाधते स्म परं शक्त्या तमुदङ्काश्रमं विभो
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
शेते लोकविनाशाय तपोबलसमाश्रितः
उदङ्कस्याऽऽश्रमाभ्याशे निश्श्वसन्पावकार्चिषः
एतस्मिन्नेव काले तु सभृत्यबलवाहनः
कुवलाश्वो नरपतिरन्वितो बलशालिनाम्
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै
समाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः
उदङ्कस्य नियोगेन लोकानां च हितेप्सया
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्
एष श्रीमान्नृपो ह्यद्य धुन्धुमारो भविष्यति
दिव्यैश्च पुष्पैस्तं देवास्समन्तात्पर्यवाकिरन्
देवदुन्दुभयश्चापि नेदु्स्स्वयमताडिताः
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः
प्रदक्षिणाश्चाप्यभवन्वन्यास्तस्य मृगद्विजाः
अन्तरिक्षे विमानानि देवानां च युधिष्ठिर
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः
देवगन्धर्वसहिताश्चाभ्यागच्छन्महर्षयः
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा
स गत्वा नृपतिः क्षिप्रं पुत्रैस्तैस्सर्वतो दिशम्
अर्णवं खानयामास कुवलाश्वो महीपतिः
हितार्थं सर्वलोकानामुदङ्कस्य वशे स्थितः
तस्य पुत्रैः खनद्भिस्तु तस्मिन्वै वालुकार्णवे
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत्
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः
अभिद्रुतश्शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
पट्टसैः परिधैः प्रासैः खड्गैश्च विमलैश्शितैः
स वध्यमानस्सङ्क्रुद्धस्समुत्तस्थौ महाबलः
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च
आस्याद्वमन्पावकं स संवर्तकसमं तदा
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः
सगरस्याऽऽत्मजान्क्रुद्धस्तदद्भुतमिवाभवत्
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्
आससाद महातेजाः कुवलाश्वो महीपतिः
तस्य वारि महाराज सुस्राव बहु देहतः
तत्तदा पीयते तेजो राज्ञा वारिमयं नृप
योगी योगेन वह्निं स शमयित्वा च वारिणा
ब्रह्मास्त्रेण ततो राजा दैत्यं क्रूरपराक्रमम्
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः
प्रीतैश्च त्रिदशैस्सर्वैर्महर्षिसहितैस्तदा
वरं वृणीष्वेत्युक्तस्स प्राञ्जलिः प्रणतस्तदा
अतीव मुदितो राजन्निदं वचनमब्रवीत्
धुन्धुमारः-
दद्यां वित्तं द्विजाग्र्येभ्यश्शत्रूणां चैव दुर्जयः
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च
धर्मे रतिश्च सततं स्वर्गे वासस्तथाऽक्षयः
मार्कण्डेयः-
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तस्स पार्थिवः
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता
सम्भाज्य चैनं विविधैराशीर्वादैस्ततौ नृपम्
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे
तस्य पुत्रास्त्रयश्शिष्टा युधिष्ठिर तदाऽभवन्
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्
एवं स निहतस्तेन कुवलाश्वेन सत्तम
धुन्धुर्दैत्यो महादैत्यो मधुकैटभयोस्सुतः
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः
नाम्नाऽथ गुणसंयुक्तस्तदाप्रभृति सोऽभवत्
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव
धौन्धुमारमुपाख्यानं प्रथितं स्वस्य कर्मणा
इदं तु पुण्यमाख्यानं विष्णोस्समनुकीर्तनम्
शृणुयाद्यस्स धर्मात्मा पुत्रवान् स भवेन्नरः
आयुष्मान्प्रीतिमांश्चैव श्रुत्वा भवति पर्वसु
न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः