मार्कण्डेयः-
मार्कण्डेयः-
स एवमुक्तो राजर्षिरुदङ्केनापराजितः
उदङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत्
बृहदश्वः-
न हि मे गमनं ब्रह्मन्मोघमेतद्भविष्यति
पुत्रो ममापि भगवन्कुवलाश्व इति स्मृतः
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि
प्रियं वै सर्वमेतत्ते करिष्यति न संशयः
पुत्रैः परिवृतस्सर्वैश्शूरैः परिघपाणिभिः
हनिष्यति महाबाहुस्तं वै धुन्धुं महासुरम्
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोस्मि साम्प्रतम्
तथाऽस्त्विति च तेनोक्तो मुनिनाऽमिततेजसा
स तमादिश्य तनयमुदङ्काय महात्मने
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम्
युधिष्ठिरः-
क एष भगवन्दैत्यो महावीर्यस्तपोधन
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम्
एवं महाबलो दैत्यो न श्रुतो मे तपोधन
यस्य निश्वासवातेन कम्पते भूस्सपर्वता
मार्कण्डेयः-
एतदिच्छामि भगवन्याथातथ्येन वेदितुम्
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप
एकार्णवे निरालोके नष्टे स्थावरजङ्गमे
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ
प्रभवं लोककर्तारं विष्णुं शाश्वतमव्ययम्
चतुर्भुजमुदाराङ्गं दृष्टवानस्मि भारत
सुष्वाप भगवान्विष्णुरहिशय्यां स एव हि
नागस्य भोगे महति शेषस्यामिततेजसः
लोककर्ता महाभाग भगवानच्युतो हरिः
नागभोगेन महता परिगृह्य च मेदिनीम्
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम्
नाभ्या विनिस्सृतं दिव्यं यत्रोत्पन्नः पितामहः
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभः
चतुर्वेदश्चतुर्मूर्तिश्चतुर्वर्गश्चतुर्मुखः
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः
कस्यचित्त्वथ कालस्य दानवौ वीर्यसत्तमौ
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम्
शयानं शयने दिव्ये नागभोगे महाद्युतिम्
बहुयोजनविस्तीर्णे बहुयोजनमायते
किरीटकौस्तुभधरं पीतकौशेयवाससम्
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तदा
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम्
विस्मयस्सुमहानासीन्मधुकैटभयोस्तदा
दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम्
वित्रासयेतामथ तौ ब्रह्माणममितौजसम्
वित्रास्यमानो बहुधा ब्रह्मा ताभ्यां महायशाः
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः
अथापश्यत गोविन्दो दानवौ वीर्यसत्तमौ
दृष्ट्वा तावब्रवीद्देवस्स्वागतं वां महाबलौ
ददामि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते
तौ प्रहस्य हृषीकेशं महादर्पौ महाबलौ
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम्
आवां वरय देव त्वं वरदौ स्वस्सुरोत्तम
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन्
श्रीभगवान्-
प्रतिगृह्णे वरं वीरावीप्सितं च वरोत्तमम्
युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान्
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै
मधुकैटभौ-
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम
बले वीर्ये च रूपे च शमे न च समोऽस्ति नौ
धर्मे तपसि दाने च शीलसत्त्वदमेषु च
उपप्लवो महानस्मानुपावर्तत केशव
उक्तं प्रति कुरुष्व त्वं कालो हि दुरतिक्रमः
आवामिच्छावहे देव कृतमेकं त्वया विभो
आनावृते त्वमाकाशे जह्यावां सुरसत्तम
पुत्रत्वमधिगच्छावस्तव चैव सुलोचन
वर एष वृतो देव तद्विद्धि सुरसत्तम
श्रीभगवान्-
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति
चिन्तयन्नथ गोविन्दो नापश्यत्तदनावृतम्
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा
मधुकैटभयोर्गृह्य शिरसी मधुसूदनः
चक्रेण शितधारेण न्यकृन्तत महायशाः