वैशम्पायनः-
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम्
युधिष्ठिरः-
विदितास्तव धर्मज्ञ देवदानवराक्षसाः
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः
न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजर्षभ
कथं वेत्सि मुने वंशान्मनुष्योरगरक्षसाम्
सुपर्णकिन्नराणां च यक्षाणां च महौजसाम्
एतदिच्छामि भगवंस्तत्त्वेन कथितं द्विज
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः
मार्कण्डेयः-
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते
महर्षिर्विश्रुतस्तात उदङ्क इति भारत
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव
उदङ्कस्तु महातेजास्तपोऽतप्यत्सुदुश्चरम्
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः
तस्य प्रीतस्स भगवान्साक्षाद्दर्शनमेयिवान्
दृष्ट्वा महर्षिर्विष्णुं तु तुष्टाव विविधैस्स्तवैः
उदङ्कः-
त्वया देव प्रजास्सर्वास्ससुरासुरमानवाः
स्थावराणि च भूतानि जङ्गमानि च सर्वशः
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ
निश्श्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत
बाहवस्ते दिशस्सर्वाः कुक्षिश्चापि महार्णवः
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन
पादौ ते पृथिवी चैव रोमाण्योषधयस्तव
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैस्स्तवैः
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर
योगिनस्सुमहावीर्यास्स्तुवन्ति त्वां महर्षयः
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम्
भयानामपनेताऽसि त्वमेकः पुरुषोत्तम
देवानां मानुषाणां च सर्वभूतसुखावहः
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः
असुराणां समृद्धानां विनाशश्च त्वया कृतः
तव विक्रमणैर्देवा निर्वाणमगमन्परम्
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः
आराधयित्वा त्वां देवास्सुखमेधन्ति नित्यशः
मार्कण्डेयः-
एवं स्तुतो हृषीकेश उदङ्केन महात्मना
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु
उदङ्कः-
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम्
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम्
श्रीभगवान्-
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम
अवश्यं हि त्वया विद्वन्मत्तो ग्राह्यो वरो द्विज
मार्कण्डेयः-
एवं सञ्चोद्यमानस्तु वरेण हरिणा तदा
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम
उदङ्कः-
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर
श्रीभगवान्-
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि
उत्सादनार्थं लोकानां धुन्धुर्नाम भविष्यति
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति
बृहदश्व इति ख्यातो भविष्यति महीपतिः
तस्य पुत्रश्शुचिर्दान्तः कुवलाश्व इति श्रुतः
स योगबलमास्थाय मामकं पार्थिवोत्तमः
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति
मार्कण्डेयः-
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत
मार्कण्डेयः-
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम्
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत्
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसस्सुतः
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान्
आर्द्राद् युवनाश्वस्तु श्रावस्तस्तस्य चाऽऽत्मजः
जज्ञे श्राव्यस्ततो राजा श्राव्यस्ती येन निर्मिता
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः
बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः
कुवलाश्वश्च पितृतो गुणैरभ्यधिकोऽभवत्
समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत्
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम्
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः
जगाम तपसे धीमांस्तपोवनममित्रहा
अथ शुश्राव राजर्षिं तमुदङ्को युधिष्ठिर
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः
तमुदङ्को महातेजास्सर्वास्त्रविदुषां वरम्
न्यवारयदमेयात्मा समासाद्य पुरोत्तमे
उदङ्कः-
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि
निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि
पालने हि महान्धर्मः प्रजानामिह दृश्यते
न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी
ईदृशो न च राजेन्द्र धर्मः क्वचन दृश्यते
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि
निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव
ममाऽऽश्रमसमीपे हि समेषु मरुधन्वसु
समुद्रवालुकापूर्ण उज्जानक इति स्मृतः
बहुयोजनविस्तीर्णो बहुयोजनमायतः
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि
शेते स लोकनाशाय तप आस्थाय दारुणम्
त्रिदशानां विनाशाय लोकानां चापि पार्थिव
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम्
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः
अवाप्य स वरं राजन्सर्वलोकपितामहात्
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम्
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै
संवत्सरस्य पर्यन्ते निश्श्वासस्सम्प्रवर्तते
यदा तदा भूश्चलति सशैलवनकानना
तस्य निश्श्वासवातेन रज उद्धूयते महत्
आदित्यपथमाश्रित्य सप्ताहं भूमिकम्पनम्
सविस्फुलिङ्गं सज्वालं सधूमं ह्यग्निदारुणम्
न तेन राजञ्शक्नोमि तस्मिन्स्थातुं स्वआश्रमे
तं विनाशय राजेन्द्र लोकानां हितकाम्यया
लोकास्स्वस्था भवन्त्वद्य तस्मिन्विनिहते युधि
धुन्धुनामानमत्युग्रं दानवं घोरविग्रहम्
समरे घोरतुमुले विनाशय महेषुणा
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः
तेजसा तव तेजश्च विष्णुराप्याययिष्यति
विष्णुना च वरो दत्तो मम पूर्वं तु तद्वधे
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः
तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम्
तत्तेजस्त्वं समाधाय राजेन्द्र भव दुस्सहः
तं निषूदय सन्दिष्टो दैत्यं रौद्रपराक्रमम्
न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि