वैशम्पायनः-
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन्निन्द्रद्युम्नोपाख्यानम्- किमस्ति कश्चिद्भवतश्चिराज्जात इति
स तानुवाच - अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिस्तस्य विच्युतेति स मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति
तमहमब्रवं वयं रसायनिकाः शरीरोपतापेनाऽऽत्मनस्समारभामहे; तथाऽर्थानामनुष्ठानमेव न भवन्तं प्रत्यभिजानीम इति
एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनर्मामब्रवीत्
अथास्ति कश्चित्त्वत्तश्चिरं जाततर इति
तं पुनः प्रत्यब्रवम् - अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः प्रतिवसति स्म; भवन्तं स यदि जानीयाद्विप्रकृष्टे चाध्वनि हिमवान् यत्रासौ प्रतिवसतीति
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः
अथैनं स राजर्षिः पर्यपृच्छत् - प्रत्यभिजानाति मां भवानिति
स मुहूर्तं ध्यात्वाऽब्रवीदेनं नाभिजाने भवन्तमिति
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् - अथास्ति कश्चित्त्वत्तश्चिरजाततर इति
स एवमुक्तोऽब्रवीदेनम् - अस्ति खल्विन्द्रद्युम्नसरो नाम; तस्मिन्नालीकजङ्घो नाम बकः प्रतिवसति; सोऽस्मत्तश्चिरजाततरः; तं पृच्छेति
तत इन्द्रद्युम्नो मामुलूकं चादाय तत्सरोऽगच्छत्; यत्रासौ नालीकजङ्घो नाम बको बभूव
सोऽस्माभिः पृष्टः - भवानिममिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति
स एवमुक्तो मुहूर्तं ध्यात्वाऽब्रवीत् - नाभिजानामि भवन्तमिन्द्रद्युम्नं राजानमिति
ततस्सोऽस्माभिः पृष्टः - कश्चिद्भवतोऽन्यश्चिरजाततर इति
स नोऽब्रवीत् - अस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति ; स मत्तश्चिरजाततरः; स यदि कथञ्चिदभिजानीयादिमं राजानं तं पृच्छामेति
ततस्स बकस्तमकूपारं कच्छपं विज्ञापयामास - अस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुं साध्वागम्यतां तावदिति
तच्छ्रुत्वा कच्छपस्तस्मात्सरस उत्थायाभ्यागच्छद्यत्र तिष्ठामो वयं
तस्य सरसस्तीरे आगतं चैनं वयं पृच्छामः - भवानिन्द्रद्युम्नं राजानमभिजानातीति
स मूहूर्तं ध्यात्वा बाष्पसम्पूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् - किमहमेनं न प्रत्यभिजानामि अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितः
सरश्चेदमस्य दक्षिणोदकदत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्; अत्र चाहं प्रतिवसामीति
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीद्वाचोऽश्रूयन्त इन्द्रद्युम्नं प्रति - प्रस्तुतस्ते स्वर्गो यथोचितं स्थानं प्रतिपद्यस्व कीर्तिमानव्यग्रो याहीति
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः
यावत्स शब्दो भवति तावत्स्वर्गे महीयते
अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित्
पतत्येवाधमाँल्लोकान्यावच्छब्दस्स कीर्त्यते
तस्मात्कल्याणवृत्तस्स्स्याद्दाता तावन्नरो भुवि
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत्
इत्येतच्छ्रुत्वा स राजाऽब्रवीत् - तिष्ठ तावद्यावदिमौ वृद्धौ यथास्थानं प्रतिपादयामीति
मां प्रावारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य सः देवयानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः
एवं मयाऽनुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः
तमृषिं पाण्डवाश्चोचुः - प्रीतास्साधु शोभनं कृतं भवता; राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं पुनः स्वर्गलोकं प्रतिपादयतेति
अथैतान् प्रत्यब्रवीदसौ - ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्पुनस्समुद्धृत्य स्वर्गं प्रतिपादित इति