मार्कण्डेयः-
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम्
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति
स्थापयित्वा स्वमर्यादास्स्वयम्भुविहिताश्शुभाः
पुनः पुण्ययशःकर्म जरया संश्रयिष्यति
तच्छीलमनुवर्तन्ते मनुष्या लोकचारिणः
विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च
स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च
संस्तूयमानो विप्रेन्द्रैर्मानयंश्च द्विजोत्तमान्
कल्की चरिष्यति महीं सदा दस्युवधे रतः
हा तात हा सुतेत्येवं तास्ता वाचस्सुदारुणाः
विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम्
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा
आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे
ब्राह्मणास्साधवश्चैव मुनयश्च तपस्विनः
आश्रमा हतपाषण्डास्स्थितास्सत्यजनाः प्रजाः
जायन्ति सर्वभूतानि शुध्यमानानि चैव हि
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति
नरा दानेषु निरता व्रतेषु नियमेषु च
जपयज्ञपरा विप्रा धर्मकामा मुदाऽन्विताः
पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम्
व्यवहारपरा वैश्या भविष्यन्ति कृते युगे
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः
शुश्रूषायां रताश्शूद्रास्तथा वर्णत्रयस्य च
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा
पश्चिमे युगकाले च यस्स ते सम्प्रकीर्तितः
सर्वलोकस्य कथिता युगसङ्ख्या च पाण्डव
एतत्ते सर्वमाख्यातमतीतानागतं मया
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम्
एवं संसारमार्गा मे बहुशश्चिरजीविनः
दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि
सर्वमेतद्यथातत्त्वं कथितं तव पार्थिव
धर्मसंशयहेतोश्च निबोध वचनं मम
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतां वर
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन
ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया
वैशम्पायनः-
मार्कण्डेयवचश्श्रुत्वा कुरूणां प्रवरो नृपः
उवाच वचनं धीमान्परमं परमद्युतिः
युधिष्ठिरः-
एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम
कथं चायं जितो लोको रक्षितव्यो भविष्यति
मार्कण्डेयः-
दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः
अपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः
चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर
प्रमादाद्यत्कृतं तेऽभूत्सम्यग्दानेन तज्जय
अलं ते मानमाश्रित्य सततं प्रियवाग्भव
विजित्य पृथिवीं सर्वां मोदमानस्सुखी भव
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः
न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः
प्राज्ञास्तात न मुह्यन्ति कालेनाभिप्रपीडिताः
एष कालो महाराज अपि सर्वदिवौकसाम्
मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः
मा च तेऽत्र विचारोऽभूद्यन्मयोक्तं तवानघ
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव
जातोऽसि पश्चिमे वंशे कुरूणां कुरुसत्तम
कर्मणा मनसा वाचा सर्वमेतत्समाचर
युधिष्ठिरः-
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्
तथा करिष्ये यत्नेन भवतश्शासनं विभो
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः
करिष्यामि हि तत्सर्वमुक्तं यत्ते प्रियं प्रभो
वैशम्पायनः-
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः
संहृष्टः पाण्डवा राजन्सहिताश्शार्ङ्गधन्वना
तथा प्रज्ञां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः
विस्मितास्समपद्यन्त पुराणस्य निवेदने