वैशम्पायनः-
एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभ
द्रौपद्या सहितास्सर्वे नमश्चक्रुर्जनार्दनम्
स चैतान्पुरुषव्याघ्रान्साम्ना परमवल्गुना
सान्त्वयामास मानार्हान्मन्यमानो यथाविधि
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्
पुनः पप्रच्छ सामात्यो भविष्यां जगतो गतिम्
युधिष्ठिरः-
आश्चर्यभूतं भवतश्श्रुतं नो वदतां वर
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम
समाकुलेषु धर्मेषु किन्नु शेषं भविष्यति
किंवीर्या मानवास्तत्र किमाहारविहारिणः
किमायुषः किंवसना भविष्यन्ति युगक्षये
कां च काष्ठां समासाद्य पुनस्सम्पत्स्यते कृतम्
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे
वैशम्पायनः-
इत्युक्तस्स मुनिश्रेष्ठः पुनरेवाभ्यभाषत
रमयन्वृष्णिशार्दूलं पाण्डवांश्च महानृषिः
मार्कण्डेयः-
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ
कलुषं कालमासाद्य कथ्यमानं निबोध मे
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः
वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा
धर्मः पादविहीनस्तु त्रिभिरंशैः प्रतिष्ठितः
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते
त्रिभिरंशैरधर्मस्तु मनुष्यानुपतिष्ठति
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव
मनुष्याणामनुयुगं ह्रसन्तीति निबोध मे
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्चैव युधिष्ठिर
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका जनाः
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः
सत्यहान्या ततस्तेषामायुरल्पमायुर्भविष्यति
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्
विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति
लोभमोहपरा मूढाः कामासक्ताश्च मानवाः
वैरसक्ता भविष्यन्ति परस्परवधेप्सवः
ब्राह्मणाः क्षत्रिया वैश्यास्सङ्किरन्तः परस्परम्
शूद्रतुल्या भविष्यन्ति तपस्सत्यविवर्जिताः
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः
ईदृशे भविता लोको युगान्ते पर्युपस्थिते
वस्त्राणां प्रवरा शाटी धान्यानां कोरदूषकाः
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकान्
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः
तेऽपि लोभसमायुक्ता भविष्यन्ति युगक्षये
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः
अजपा नास्तिकास्स्तेना भविष्यन्ति युगक्षये
ततस्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः
ताश्चाप्यल्पफलकास्तेषां भविष्यन्ति युगक्षये
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः
तेऽपि लोभसमायुक्ता भक्षयन्ति परस्परम्
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च
अनिष्टानि च भोज्यानि भविष्यन्ति युगक्षये
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः
न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः
न चेष्टिं कारयिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा
निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते
म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम्
भविष्यति निरानन्दमनुत्सवममङ्गलम्
प्रायशः कृपणानां तु तथा बन्धुमतामपि
विधवानां च वित्तानि हरिष्यन्तीह मानवाः
अल्पवीर्यबलास्स्तब्धा लोभमोहपरायणाः
तत्कथादानसन्तुष्टाश्शिष्टानामपि बान्धवाः
परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः
सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः
परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः
केवलं दण्डरुचयो भविष्यन्ति युगक्षये
आक्रम्याऽऽक्रम्य साधूनां दारांश्चापि धनानि च
भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते
स्वयङ्ग्रहा भविष्यन्ति युगान्ते पर्युपस्थिते
राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते
वैरभूतं जगत्सर्वं भविष्यति न भारत
हस्तो हस्तं प्रमुष्णाति युगान्ते पर्युपस्थिते
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः
स्थविरा बालमतयो बालास्स्थविरबुद्धयः
भीरवश्शूरमानाश्च शूरा भीरुविषादिनः
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम्
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप
एकवर्णस्तदा लोको भविष्यति युगक्षये
न रक्षति पिता पुत्रं पुत्रश्च पितरं तथा
भार्या च पतिशुश्रूषां न करिष्यति काचन
ये यवान्ना जनपदा गोधूमान्नास्तथैव च
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
स्वैराहाराश्च पुरुषा योषितश्च विशां पते
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर
श्राद्धे न देवान्न पितॄंस्तर्पयिष्यन्ति मानवाः
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः
तमोग्रस्तस्तदा लोको भविष्यति नराधिप
परमायुश्च भविता तदा वर्षाणि षोडश
ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा
पत्यौ पत्नी तदा राजन्पुरुषो वा स्त्रियं प्रति
युगान्ते राजशार्दूल न तोषमुपयास्यति
अल्पद्रव्यो वृथालिङ्गो हिंसां च प्रचरिष्यति
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये
अट्टशूला जनपदाश्शिवशूलाश्चतुष्पथाः
केशशूलास्स्त्रियस्सर्वा भविष्यन्ति युगक्षये
म्लेच्छाश्शूद्रास्सर्वभक्षा दारुणास्सर्वकर्मसु
भाविनः पश्चिमे काले मनुष्या नात्र संशयः
क्रयविक्रयकाले च सर्वस्सर्वस्य वञ्चनाम्
युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा
आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः
भवितारो जनास्सर्वे सम्प्राप्ते तु युगक्षये
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः
भविता संशयो लोके जीवितस्य च देहिनाम्
तथा लोभाभिभूताश्च भविष्यन्ति महीमिमाम्
ब्राह्मणान्निहनिष्यन्ति ब्रह्मस्वानि च भुञ्जते
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः
त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम्
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः
यदा भविष्यन्ति नरास्तदा सम्पत्स्यते युगम्
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः
कुराजभिश्च सततं करभारप्रपीडिताः
धैर्यं त्यक्त्वा महाराज दारुणे युगसङ्क्षये
विकर्माणि करिष्यन्ति शूद्रान्नपरिचारकाः
शूद्रा धर्मान् प्रवक्ष्यन्ति न द्विजा युगसङ्क्षये
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः
जलूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः
शूद्रा अभिवदिष्यन्ति न द्विजा युगसङ्क्षये
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च
देवस्थानेषु चैत्येषु नागानामालयेषु च
जालूकचिह्ना पृथिवी न देवगृहभूषिता
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम्
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा
भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम्
पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम्
प्रजास्यति नरश्रेष्ठ तदा सङ्क्षेप्स्यते युगम्
अकालवर्षी पर्जन्यो भविष्यति युगक्षये
अक्रमेण मनुष्याणां भविष्यन्ति तदा क्रियाः
विरोधमथ यास्यन्ति वृषला ब्राह्मणैस्सह
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात्
करभारभयाद्विप्रा द्रविष्यन्ति दिशो दश
अन्यायवर्तिनश्चापि भविष्यन्ति नराधिपाः
निर्विशेषा जनपदा अनावृष्टिभिरर्दिताः
आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः
एवं पर्याकुले लोके मर्यादा न भविष्यति
ब्राह्मणाः क्षत्रिया वैश्याः परित्यक्ष्यन्ति सत्क्रियाम्
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः
आचार्योपनिधिश्चैव वेत्स्यते तदनन्तरम्
अर्थयुक्त्या प्रपश्यन्ति मित्रसम्बन्धिबान्धवाः
अभावस्सर्वभूतानां युगान्ते च भविष्यति
दिशः प्रज्वलितास्सर्वा नक्षत्राणि जलानि च
प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा
उल्कापाताश्च बहवो महाभयनिदर्शकाः
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः
कबन्धान्तर्हितो भानुरुदयास्तमये तदा
अकालवर्षी च तदा भविष्यति सहस्रदृक्
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः
भर्तॄणां वचने चैव न स्थास्यन्ते तदा स्त्रियः
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः
अपर्वणि महाराज सूर्यं राहुरुपैष्यति
युगान्ते हुतभुक् चापि सर्वतः प्रज्वलिष्यति
पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते
निर्घातवायसा नागाश्शकुनास्समृगद्विजाः
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
मित्रं सम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा
अथ देशान्दिशश्चैव पत्तनानि पुराणि च
क्रमशस्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
हा तात हा सुतेत्येवं तदा वाचस्सुदारुणाः
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति
भोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः
पाषण्डजनसङ्कीर्णा भविष्यन्ति युगक्षये
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये
द्विजातिपूर्वको लोकः क्रमेण प्रपतिष्यति
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये
भविष्यति पुनर्दैवमनुकूलं यदृच्छया
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती
एकराशौ समेष्यन्ति सम्पत्स्यति तदा कृतम्
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च
दक्षिणानि भविष्यन्ति ग्रहाश्चाप्यनुलोमकाः
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः
सम्भूतश्शम्बलग्रामे ब्राह्मणावसथे शुभे
महात्मा वृत्तसम्पन्नः प्रजानां हितकृन्नृप
मनसा तस्य सर्वाणि वाहनान्यायुधानि च
उपस्थास्यन्ति योगाच्च शस्त्राणि कवचानि च
स धर्मविजयी राजा चक्रवर्ती भविष्यति
स चेमं सकलं लोकं प्रसादमुपनेष्यति
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः
सङ्क्षेपको हि स सर्वस्य युगस्य परिवर्तकः
स सर्वत्र गतः क्षुद्रान्ब्राह्मणैः परिवारितः
उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः