वैशम्पायनः-
ततस्स पुनरेवाथ मार्कण्डेयं तपस्विनम्
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः
युधिष्ठिरः-
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने
न चापीह समः कश्चिदायुषा तात विद्यते
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम
अन्तरिक्षे च लोकेऽस्मिन्देवदानववर्जिते
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे
त्वमेकस्सृज्यमानानि भूतानीह प्रपश्यसि
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः
त्वया लोकगुरुस्साक्षात्सर्वलोकपितामहः
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना
तस्मात्सर्वान्तको मृत्युर्जरा वा देहघातिनी
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः
यदा वै न रविर्नाग्निर्न वायुर्न च चन्द्रमाः
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे
नष्टे देवासुरगणे समुत्सन्नमहोरगे
शयानममितात्मानं पद्मे पद्मनिकेतनम्
त्वमेकस्सर्वभूतेशं ब्रह्माणमुपतिष्ठसि
एतत्प्रत्यक्षतस्सर्वं पूर्वं वृत्तं द्विजोत्तम
तस्मादिच्छाम्यहं श्रोतुं सर्वां हेत्वात्मिकां कथाम्
अनुभूतं हि बहुशस्त्वयैतद्द्विजसत्तम
न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा
मार्कण्डेयः-
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे
पुरुषाय पुराणाय शाश्वतायाव्ययाय च
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः
एष कर्ता विकर्ता च भूतभावनभूतकृत्
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोत्तमम्
अनादिनिधनं भूतं विश्वमक्षयमव्ययम्
एष कर्ता न क्रियते कारणं चापि पौरुषे
को ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः
सर्वमाश्चर्यमेतद्धि निर्वृत्तं राजसत्तम
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये
चत्वार्याहुस्सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथा परः
त्रीणि वर्षसहस्राणि त्रेता स्यात्परिमाणतः
तस्यास्तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम्
अथ वर्षसहस्रे द्वे द्वापरं परिमाणतः
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम्
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम्
सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमवधारय
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम्
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम्
विश्वं हि ब्रह्मसदने सर्वतः परिवर्तते
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ
सहस्रान्ते नरास्सर्वे प्रायशोऽनृतवादिनः
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते
ब्राह्मणाश्शूद्रकर्माणस्तथा शूद्रा धनार्जनाः
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये
निवृत्तयज्ञस्वाध्याया पिण्डोदकविवर्जिताः
ब्राह्मणस्सर्वभक्षाश्च भवन्तीह कलौ युगे
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः
विपरीते तदा लोके पूर्वरूपक्षयङ्करे
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप
मृषानुशासिनः पापा मृषावादपरायणाः
आन्ध्राश्शकाः पुलिन्दाश्च यवनाश्च नराधिपाः
काम्भोजा कुण्डिकाश्शूरास्तथाऽऽभीरा नरोत्तम
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति
क्षत्रिया ह्यपि शूद्राश्च विकर्मस्था नराधिप
अल्पायुषस्स्वल्पबला अल्पतेजःपराक्रमाः
अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः
बहुशून्या जनपदा मृगव्यालावृता दिशः
युगान्ते मनुजव्याघ्र वृथा च ब्रह्मवादिनः
भोवादिनस्तथा शूद्रा ब्राह्मणानार्यवादिनः
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते
रसाश्च मनुजव्याघ्र बीजं च परिहीयते
बहुप्रजा ह्रस्वदेहाश्शीलाचारविवर्जिताः
मुखेभगास्स्त्रियो राजन्भविष्यन्ति युगक्षये
अट्टशूला जनपदाश्शिवशूलाश्चतुष्पथाः
केशशूलास्स्त्रियो राजन्भविष्यन्ति कलौ युगे
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप
अल्पपुष्पफलाश्चापि पादपा बहुशाखिनः
ब्रह्मवध्यानुलिप्तानां तथा मिथ्यानुशसिनाम्
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजा दिशः
करभारभयात् पुंसो गृहस्थाः परिमोक्षगाः
मुनिच्छद्मानुसञ्छन्ना वाणिज्यमुपभुञ्जते
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः
आश्रमेषु वृथाचारा पानपा गुरुतल्पगाः
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये
यथर्तुवर्षी भगवान्न तथा पाकशासनः
न तथा सर्वबीजानि सम्यग्रोहन्ति भारत
फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते
अधर्मफलमत्यर्थं तदा भवति चानघ
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः
अल्पायुस्स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः
धर्मस्य बलहानिस्स्यादधर्मश्च बलायते
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा
दीर्घायुषस्समृद्धाश्च विधर्माणो युगक्षये
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत
सञ्चयेनापि चाल्पेन भवन्त्याढ्यमदान्विताः
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः
हर्तुं व्यवसिता राजन्पापाचारसमन्विताः
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा
नगराणां विहारेषु चैत्येष्वपि च शेरते
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते
भवन्ति षोडशे वर्षे पुत्राश्च पलितास्तथा
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते
विपरीतास्तथा नार्यो वञ्चयित्वाऽर्हतः पतीन्
व्युच्चरन्ती च दुश्शीला दासैः पशुभिरेव च
तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये
अनावृष्टिर्महाराज जायते बहुवार्षिकी
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते
ततो दिनकरैर्दीप्तैस्सप्तभिर्मनुजाधिप
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च
यच्च काष्ठं तृणं वाऽपि शुष्कं चार्द्रं च भारत
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ
ततस्संवर्तको वायुरग्निना सहितो भृशम्
लोकमाविशते पूर्वमादित्यैरुपशोषितम्
ततस्स पृथिवीं भित्त्वा प्रविश्य च रसातलम्
देवदानवयक्षाणां भयं जनयते महत्
निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह
अधस्तात्पृथिवीं राजन् सर्वं नाशयति क्षणात्
ततो योजनविंशानां सहस्राणि शतानि च
निर्दहत्यशिवैर्घोरैस्तदा संवर्तकोऽनिलः
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्
ततो दहति दीप्तस्सन् सर्वानेव दिवौकसः
ततो गजकुलप्रख्या विद्युन्मालाविभूषिताः
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः
केचित्कुञ्जरसङ्काशाः केचित्पीताः पयोधराः
केचिद्धारिद्रसदृशाः केचिन्मकरसन्निभाः
केचिद्द्विरदसङ्काशाः कारण्डवनिभास्तथा
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः
केचित्पुरवराकाराः केचिद्गजकुलोपमाः
केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः
विद्युन्मालापिनद्धाङ्गास्समुत्तिष्ठन्ति वै घनाः
घोररूपा महाराज घोरस्वननिनादिताः
ततो जलधरास्सर्वं व्याप्नुवन्ति नभस्स्थलम्
गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः
तैरियं पृथिवी सर्वा सपर्वतवनान्तरा
आपूर्यते महाराज सलिलौघपरिप्लुता
ततस्ते जलदा घोरा राविणः पुरुषर्षभ
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना
वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम्
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम्
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना
ततस्समुद्रस्स्वां वेलामतिक्रामति भारत
पर्वताश्च विशीर्यन्ते मही चापि विदीर्यते
पर्वतैस्सहिताश्श्रान्तास्ते पयोदा नभस्स्थलम्
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे
नष्टे देवासुरगणे यक्षराक्षसवर्जिते
निर्मनुष्ये महीपाल निश्श्वापदमहीरुहे
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम
अपश्यन्सर्वभूतानि वैक्लब्यमगमं परम्
ततस्सुदीर्घं गत्वाऽहं प्लवमानो धराधिप
क्लान्तः क्वचिन्न शरणं लब्धवानस्म्यहं ततः
ततः कदाचित्पश्यामि तस्मिन्सलिलसन्निधौ
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते
उपविष्टं महाराज पद्मेन्दुसदृशाननम्
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत
ततो मे पृथिवीपाल विस्मयस्सुमहानभूत्
कथं चायं शिशुश्शेते लोके नाशमुपागते
तपसा चिन्तितं चापि तं शिशुं नोपलक्षये
भूतं भव्यं भविष्यं च जानन्नपि नराधिप
अतसीपुष्पसङ्काशं श्रीवत्सकृतलक्षणम्
साक्षाल्लक्ष्म्या इवावासस्स तदा प्रतिभाति मे
ततो मामब्रवीद्बालस्स पद्मनिभलोचनः
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम्
श्रीभगवान्-
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम्
मार्कण्डेय इहाऽऽस्स्व त्वं यावदिच्छसि भार्गव
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम
आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया
मार्कण्डेयः-
ततो बालेन तेनैव मुक्तस्याऽऽसीत्तदा मम
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत
ततो बालेन तेनाऽऽस्यं सहसा विवृतं कृतम्
तस्याहमवशो यत्र दैवयोगात्प्रवेशितः
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम्
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि
वस्वोकसारां नलिनीं नर्मदां चैव भारत
नदीं ताम्रां च वेणां च परमाथ पाण्डव
वितस्तां च नरव्याघ्र कावेरीं सरितां वराम्
तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्
शोणां च पुरुषव्याघ्र विशल्यां शबरामपि
एताश्चान्याश्च नद्योऽहं पृथिव्यां राजसत्तम
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः
ततस्समुद्रं पश्यामि यादोगणनिषेवितम्
रत्नाकरममित्रघ्न निधानं पयसां महत्
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः
पश्यामि च महीं राजन्काननैरुपशोभिताम्
सपर्वतवनद्वीपां निम्नगाशतसङ्कुलाम्
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिर्मखैः
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जनैः
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप
शुश्रूषायां च निरता द्विजानां वृषलास्तदा
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्
पश्यामि च महीपाल पर्वतं गन्धमादनम्
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्
पश्यामि च महाराज मेरुं कनकपर्वतम्
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्
मलयं च महाशैलं पारियात्रं च पर्वतम्
एते चान्ये च बहवो यावन्तः पृथिवीधराः
तस्योदरे मया दृष्टास्सर्वे रत्नविभूषिताः
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप
पृथिव्यां यानि चान्यानि सत्वानि जगतीपते
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा
कुक्षौ तस्य नरव्याघ्र प्रविष्टस्सञ्चरन्दिशम्
शक्रादींश्च प्रपश्यामि कृत्स्नान्देवगणांस्तथा
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते
दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप
सिंहिकातनयांश्चैव ये चान्ये सुरशत्रवः
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम्
तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः
फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा
अन्तश्शरीरे तस्याहं वर्षाणामयुतं शतम्
अथ पश्यामि तस्याहं देहस्यान्तं न कर्हिचित्
सततं परिधावंश्च चिन्तयंश्च महाद्युते
आसादयामि नैवान्तं तस्य राजन्महात्मनः
भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा
वरेण्यं वरदं देवं मनसा कर्मणैव च
ततोऽहं सहसा राजन्वायुवेगेन निस्सृतः
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम
ततस्तस्यैव शाखायां न्यग्रोधस्य महात्मनः
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत्
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम्
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्
ततो मामब्रवीद्बालस्स प्रीतः प्रहसन्निव
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः
श्रीभगवान्-
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम
उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे
मार्कण्डेयः-
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा
मायानिर्मुक्तमात्मानमपश्यं लब्धचेतसम्
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ
सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ
प्रयतेन मया मूर्ध्ना गृहीत्वा चाभिवादितौ
दृष्ट्वाऽपरिमितं तस्य प्रभावममितौजसः
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य ह
दृष्टो मया स भूतात्मा देवः कमललोचनः
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम्
ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम्
आस्येनाहं प्रविष्टोऽस्मि देहं तव सुरोत्तम
दृष्टवानखिलाल्ँलोकान्समस्तान्जठरे तव
तव देव शरीरस्था देवदानवराक्षसाः
यक्षगन्धर्वनागाश्च जगच्च स्थाणुजङ्गमम्
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते
द्रुतमन्तश्शरीरे ते सततं परिधावतः
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दित
इह भूत्वा शिशुस्साक्षात्किं भवानधितिष्ठति
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि
किमर्थं च जगद्विश्वं शरीरस्थं तवानघ
कियन्तं च त्वया कालमिह स्थेयमरिन्दम
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्
महद्ध्येयमचिन्त्यं च यदहं दृष्टवान्प्रभो
इत्युक्तस्स मया श्रीमान्देवदेवो महाद्युतिः
सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः