वैशम्पायनः-
ततस्स पाण्डवो भूयो मार्कण्डेयमुवाच ह
कथयस्वेति चरितं मनोर्वैवस्वतस्य च
मार्कण्डेयः-
विवस्वतस्सुतो राजन्परमर्षिः प्रतापवान्
बभूव मुनिशार्दूलः प्रजापतिसमद्युतिः
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः
अतिचक्राम पितरं मनुस्स्वं च पितामहम्
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः
एकपादस्थितः पूर्वं चकार सुमहत्तपः
अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्
वीरणीतीरमागम्य मत्स्यो वचनमब्रवीत्
मत्स्यः-
भगवन्क्षुद्रमत्स्योस्मि बलवद्भ्यो भयं मम
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः
भक्षयन्ति सदा वृत्तिर्विहिता नस्सनातनी
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव
मार्कण्डेयः-
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम्
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः
अरञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम्
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः
अथ कालेन महता स मत्स्यस्सुमहानभूत्
अरञ्जरजले चैव नासौ समभवत्किल
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत
मत्स्यः-
भगवन्साधु मेऽद्यान्यत्स्थानं वै प्रतिपादय
मार्कण्डेयः-
उद्धृत्यारञ्जरात्तस्मात्ततस्स भगवान्मनुः
तं मत्स्यमनयद्वापीं महतीं तु मनुस्तदा
तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय
अथावर्धत मत्स्यस्स पुनर्वर्षगणान्बहून्
द्वियोजनायता वापी विस्तृता चापि योजनम्
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशां पते
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत
मत्स्यः-
नय मां भगवन्साधो समुद्रमहिषीं प्रभो
गङ्गां नात्रापि शक्तोऽस्मि वस्तुं मतिमतां वर
मार्कण्डेयः-
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी
गङ्गानदीं तत्र चैनं स्वयं प्राक्षिपदेव च
स तत्र ववृधे मत्स्यः कञ्चित्कालमरिन्दम
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्
मत्स्यः-
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो
समुद्रं नय मामाशु प्रसीद भगवन्निति
मार्कण्डेयः-
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनु्स्स्वयम्
समुद्रमनयत्पार्थ तत्र चैनमवासृजत्
सुमहानपि मत्स्यस्तु स मनोर्मनसस्तदा
आसीद्यथेष्टभार्यश्च स्पर्शगन्धसुखश्च वै
यदा समुद्रे प्रक्षिप्तस्स मत्स्यो मनुना तदा
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्
मत्स्यः-
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम्
सर्वमेव महाभाग प्रलयं वै गमिष्यति
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम्
चराणां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः
नौश्च कारयितव्या ते दृढा युक्तवटारका
तत्र सप्तर्षिभिस्सार्धमारुहैतां महामुने
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा
तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः
नौस्थश्च मां प्रतीक्षेथास्तथा मुनिजनप्रिय
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम्
नातिशक्यमिदं चापि वचनं ते ममापि भो
मार्कण्डेयः-
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा
नावा तु शुभया वीर महोर्मिणमरिन्दम
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय
शृङ्गी तत्राऽऽजगामाऽऽशु तथा भरतसत्तम
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम्
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि
मनुर्मनुजशार्दूल तस्य शृङ्गे न्यवेदयत्
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय
वेगेन महता नावं प्राकर्षल्लवणाम्भसि
स ततार तया नावा समुद्रं मनुजेश्वर
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ
जुघूर्ण चपलेव स्त्री मत्ता परपुरञ्जय
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे
सर्वं सलिलमेवाऽऽसीत्खं द्यौश्च नरपुङ्गव
एवम्भूते तदा लोके सङ्कुले भरतर्षभ
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्सहैव ह
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये
ततो हिमवतश्शृङ्गं यत्परं पुरुषर्षभ
तत्राकर्षत्ततो नावं मत्स्यः कौरवनन्दन
ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः
मत्स्यः-
तस्मिन्हिमवतश्शृङ्गे नावं बध्नीत मा चिरम्
मार्कण्डेयः-
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ
नौर्मत्स्यस्य वचश्श्रुत्वा शृङ्गे हिमवतस्तदा
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा
मत्स्यः-
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात्
मनुना च प्रजास्सर्वाः सदेवासुरमानुषाः
स्रष्टव्यास्सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति
मार्कण्डेयः-
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतस्स्वयम्
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः
तपसा महता युक्तस्सोऽथ स्रष्टुं प्रचक्रमे
सर्वाः प्रजा मनुस्साक्षाद्यथावद्भरतर्षभ
वैशम्पायनः-
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्
आख्यानमिदमाख्यातं सर्वपापहरं मया
य इदं शृणुयान्नित्यं मनोश्चरितमादितः
स सुखी सर्वपूर्णार्थस्सर्वलोकमियान्नरः