मार्कण्डेयः-
अत्रैव च सरस्वत्या गीतं परपुरञ्जय
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता
तार्क्ष्यः-
किं नु श्रेयः पुरुषस्येह शोभने कथं कुर्वन्न च्यवते स्वधर्मात्
आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वयाऽनुशिष्टो न च्यवेयं स्वधर्मात्
कथं चाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत्
एतत्क्षिप्रं सुभगे प्रब्रवीहि यथा लोकान् विरजास्सम्प्रपश्ये
मार्कण्डेयः-
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुणा चोत्तमबुद्धियुक्ता
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे
सरस्वती-
यो ब्रह्म जानाति यथोपदेशं स्वाध्यायनित्यश्शुचिरप्रमत्तः
स वै पुरा देवपुरस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम्
तत्रास्य रम्या विपुला विशोकास्सुपुष्पिताः पुष्करिण्यस्सुपुण्याः
अकर्दमा मीनवत्यस्सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः
तासां तीरेष्वासते पुण्यकर्मा महीयमानः पृथगप्सरोभिः
सुपुण्यगन्धाभिरलङ्कृताभिर्हिरण्यवर्णाभिरतीव हृष्टः
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वा सुवर्णं सूर्यलोकं व्रजन्ति
वासो दत्त्वा चन्द्रमसस्सलोकं दत्त्वा हिरण्यममृतत्वमेति
धेनुं दत्त्वा सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम्
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्
धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य
यस्सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं तदाऽऽग्नौ सुव्रतस्साधुशीलः
सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिस्स्वैः
तार्क्ष्यः-
किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चारुरूपे
त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम्
सरस्वती-
न चाशुचिर्नाप्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित्
बुभुक्षवश्शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ति
नाश्रोत्रियं देवहव्येषु युञ्ज्यान्मोघं पुरा सिञ्चति तादृशो हि
अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम्
ये वै कृशानुं जुह्वति श्रद्दधानास्सत्यव्रता हुतशिष्टाशिनश्च
गवां लोकं प्राप्यते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम्
तार्क्ष्यः-
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतां वरिष्ठाम्
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां कान्वसि चारुरूपे
सरस्वती-
अग्निहोत्रादहमभ्यागताऽस्मि विप्रर्षीणां संशयच्छेदनाय
त्वत्संयोगादहमेतदब्रुवं भावे स्थिता तथ्यमर्थं यथावत्
तार्क्ष्यः-
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः
रूपं च ते दिव्यमनन्तकान्तं प्रज्ञां च देवीं सुभगे बिभर्षि
सरस्वती-
श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति
तैरेवाहं सम्प्रवृद्धा भवामि आप्यायिता रूपवती च विप्र
यच्चापि पात्रमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा
दिव्येन रूपेण च प्रज्ञया च तैरेति सिद्धिरिति विद्धि विद्वन्
तार्क्ष्यः-
इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयस्सम्प्रतीताः
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः
सरस्वती-
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्
स्वाध्यायदानव्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः
तस्याथ मध्ये वेतसः पुण्यगन्धस्सहस्रशाखो विपुलो विभाति
तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणास्सुपुण्याः
शाखां शाखां महानद्यस्संयान्ति सिकतासमाः
पानापूपा मांसकुल्यास्सदा पायसकर्दमाः
यस्मिन्नग्निमुखा देवास्सेन्द्रास्सहमरुद्गणाः
ईजिरे क्रतुभिश्श्रेष्ठैस्तत् पदं परमं मुने