युधिष्ठिरः-
भवानेतादृशो लोके वेदवेदाङ्गपारगः
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा
सर्पः-
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत
अहिंसानिरतस्स्वर्गं गच्छेदिति मतिर्मम
युधिष्ठिरः-
दानं वा सर्प सत्यं वा किमतो गुरु दृश्यते
अहिंसाप्रिययोश्चापि गुरुलाघवमुच्यताम्
सर्पः-
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्
क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते
सत्यवाक्याच्च राजेन्द्र क्वचिद्दानं विशिष्यते
एवमेव महेष्वास प्रियवाक्यान्महीपते
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्
युधिष्ठिरः-
कथं स्वर्गे गतिस्सर्प कर्मणां च फलं ध्रुवम्
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे
सर्पः-
तिस्रो वै गतयो राजन्जगत्येषां यथाविधि
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तास्त्रिधा
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः
अहिंसार्थसमायुक्तैः कारणैस्स्वर्गमश्नुते
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते
यदा त्वत्र महत्त्वेन हिंसार्थो लोभ एव च
मानुष्यमाविशेन्मोहाद्स तिर्यगवशो व्रजेत्
तिर्यग्योन्याः पृथग्भावो मानुष्यत्वे विधीयते
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते
सोऽयमेता गतीस्सर्वा जन्तुश्चरति कार्यवान्
निम्ने महति चात्मानमवस्थाप्य च वै नृप
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान्
फलार्थस्तात निर्वृत्तः प्रजालक्षणभावनः
युधिष्ठिरः-
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम्
युगपच्च महाबुद्धे विषयं किं न गृह्यते
एतावदुच्यतां चोक्तं सर्वं ब्रूहि महामते
सर्पः-
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि
ज्ञानं चैव मनश्चात्र बुद्धिश्च नरसत्तम
तस्य भोगाधिकरणे करणानि निबोध मे
मनसा तात पर्येति क्रमशो विषयानिमान्
विषयायतनत्स्थेन भूतात्मा क्षेत्रविष्ठितः
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम्
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः
युधिष्ठिरः-
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्
एतदध्यात्मविदुषां परं कार्यं विधीयते
सर्पः-
बुद्धिरात्मानुगा तात उत्पातेन विधीयते
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत्
बुद्धिरुत्पाद्यते कार्यं मनस्तूत्पन्नमेव हि
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत्
एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम्
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यसे स्वयम्
युधिष्ठिरः-
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि
सर्वज्ञं त्वां कथं मोहो ह्यगमत्स्वर्गवासिनम्
एवमद्भुतकर्माणमिति मे संशयो महान्
सर्पः-
सुप्रज्ञमपि चेद्दूरं बुद्धिर्मोहयते नरम्
वर्तमानस्सुखे सर्वो नावैतीति मतिर्मम
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम्
कृतं कार्यं महाराज त्वया मम परन्तप
क्षीणश्शापस्सुकृच्छ्रो मे त्वया सम्भाष्य साधुना
अहं हि दिवि दिव्येन विमानेन चरन्पुरम्
अभिमानेन मत्तो वै कञ्चिदन्यन्न चिन्तये
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम
ब्रह्मर्षीणां सहस्राणि वहन्ति शिबिकां मम
स मामपनयो राजन्भ्रंशयामास वै श्रियः
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा
ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतभूषणः
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति
प्रमादात्सम्प्रवृत्तस्य भगवन्क्षम्यतामिति
ततस्स मामुवाचेदं प्रपतन्तं कृपान्वितः
युधिष्ठिरो धर्मराजश्शापात्त्वां मोक्षयिष्यति
अभिमानस्य चैतस्य बलस्य च नराधिप
फले क्षीणे ह्यनिर्दिष्टं फलं पुण्यमवाप्स्यसि
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम्
सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता
साधकानि सतां पुंसां न जातिर्न कुलं नृप
अरिष्ट एष ते भ्राता मुक्तो भीमो महाभुज
स्वस्ति तेऽस्तु महाराज गमिष्येऽहं दिवं पुनः
स चायं पुरुषव्याघ्र कालः पुण्य उपागतः
तदस्मात्कारणात्पार्थ कार्यं मम महत्कृतम्
वैशम्पायनः-
ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै
अवपातेन महता तत्रावाप तदुत्तमम्
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः
दिव्यां दिव्यवपुर्भूत्वा स्वकर्मविजितां ययौ
युधिष्ठिरस्तु धर्मात्मा भ्रात्रा भीमेन सङ्गतः
धौम्येन सहितश्श्रीमानाश्रमं पुनरागमत्
ततो द्विजेषु सर्वेषु समेतेषु यथातथम्
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः
तच्छ्रुत्वा ते द्विजश्रेष्ठा भ्रातरश्चास्य ते त्रयः
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम्
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्
हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः