वैशम्पायनः-
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्
भ्रातरं दयितं धीमानिदमित्यब्रवीद्वचः
युधिष्ठिरः-
कुन्तीमातः कथमिमं पातकं त्वमिहाप्तवान्
कश्चायं पर्वताकारभोगः पन्नगसत्तमः
वैशम्पायनः-
धर्मराजं समालक्ष्य भ्राता भ्रातरमग्रजम्
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम्
युधिष्ठिरः-
देवो वा दैत्यनाथो वा उरगो वा भवान्यदि
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्
सर्पः-
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ
प्रथितः पञ्चमस्सोमादायोः पुत्रो नराधिप
क्रतुभिस्तपसा चैव स्वाध्यायेन बलेन च
त्रैलोक्यैश्वर्यमप्राप्यं प्राप्य विक्रमणेन च
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा
सहस्रं हि द्विजातीनां वहन्ति शिबिकां मम
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान्
इमामगस्त्येन दशामानीत इति मे स्मृतिः
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः
षष्ठे काले समाहारः प्राप्तोऽयमनुजस्तव
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये
प्रश्नानुच्चारितान्सत्यं व्याहरिष्यसि चेन्मम
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्
युधिष्ठिरः-
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम
वेद्यं तु ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्
सर्पराज हि तच्छ्रुत्वा प्रतिवक्ष्यामि ते वचः
सर्पः-
ब्राह्मणः को भवेद्राजन्वेद्यं किञ्च युधिष्ठिर
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिनोमि ते
युधिष्ठिरः-
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्
सर्पः-
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये
युधिष्ठिरः-
शूद्रे तु यद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणस्स्मृतः
तत्रैतन्न भवेत्सर्वं तं शूद्रमिति निर्दिशेत्
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि
एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्
एषा मम मतिस्सर्प यथा वा मन्यते भवान्
सर्पः-
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः
वृथा जातिस्तदायुष्मन्कृतिर्या चात्र विद्यते
युधिष्ठिरः-
जातिरत्र महासर्प मनुष्यत्वे महामते
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्
इदमार्षं प्रमाणं च ये यजामह इत्यपि
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते
ततस्तु नामकरणं ततश्चौलं विधीयते
तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम्
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते
वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते
अस्मिन्नेवं मतिर्द्वेधा मनुस्स्वायम्भुवोऽब्रवीत्
कृतकृत्यास्सर्ववर्णा यदि वृत्तं न पश्यति
संस्कारस्त्वत्र नागेन्द्र फलभाङ् न समीक्ष्यते
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम
सर्पः-
श्रुतं विदितवेद्यस्य तव वाक्यं महामते
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्