वैशम्पायनः-
स भीमसेनस्तेजस्वी यथा सर्पवशं गतः
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
स उवाच महासत्त्वं को मम ब्रूहि पन्नग
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः
नागायुतसमप्राणस्त्वया नीतः कथं वशम्
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा
समागताश्च बहुशो निहताश्च महामृधे
नागाश्चापि पिशाचाश्च यक्षाश्चाप्यथ राक्षसाः
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम
किं नु विद्याबलं किं वा वरदानमथो तव
उद्यमं ह्यपि कुर्वाणो विवशोऽस्मि कृतस्त्वया
अनित्यो विक्रमो नॄणामिति मे धीयते मतिः
वृथेदं त्वयि मे नाग बलं प्रतिहतं महत्
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्
भोगेन महता सर्पस्समन्तात्पर्यवेष्टयत्
निगृह्य तं महाबाहुं ततस्स भुजगस्तदा
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्
सर्पः-
दिष्टस्त्वं क्षुधितस्याद्य भक्षो देवैर्महाभुज
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिन्दम
तदवश्यं त्वया मत्तश्श्रोतव्यं शृणु तन्मम
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्महर्षिणा
शापस्यान्तं परिप्रेप्सुः सर्वस्य कथयामि तत्
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
तवैव पूर्वः पूर्वेषामायोर्वंशकरस्सुतः
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमत्य च
इमामवस्थामापन्नः पश्य दैवकृतं मम
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्
न हि मे मुच्यते कश्चित्कदाचिद्ग्रहणंं गतः
गजो वा महिषो वाऽपि षष्ठे काले नरोत्तम
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम
पतता हि विमानाग्रान्मया शक्रासनात्तदा
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः
स मामुवाच तेजस्वी कृपयाऽभिपरिप्लुतः
अगस्त्यः-
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात्
सर्पः-
ततोऽस्मि पतितो भूमौ न च मां प्रजहात्स्मृतिः
स्मार्तमस्ति पुराणं वै यथैवाधिगतं तथा
यस्तु मे व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषतः
स मां मोक्षयिता शापादिति मामब्रवीदृषिः
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः
बलभ्रंशोऽधिकस्यापि सर्वस्याऽऽशु भविष्यति
इति चाप्यहमश्रौषं वचस्तेषां दयावताम्
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः
वैशम्पायनः-
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्
भीमसेनः-
न ते कुप्ये महासर्प नात्मने द्विजसत्तम
यस्मादभावी भावी वा मनुष्यस्सुखदुःखयोः
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः
दैवं पुरुषकारेण को वञ्चयितुमर्हति
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम्
किन्तु मां नानुशोचामि तथाऽऽत्मानं विनाशितम्
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान्
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः
मां च ते समुदीक्षन्तः प्रयतिष्यन्ति विह्वलाः
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः
धर्मशीला मया ते हि बाध्यन्ते राज्यगृध्नुना
अथवा नार्जुनो धीमान्विषादमुपयास्यति
दिव्यास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः
समर्थस्स महाबाहुरेकाह्ना सुमहाबलः
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम्
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम्
मातरं त्वनुशोचामि कृपणां पुत्रगृध्नुनीम्
याऽस्मासु नित्यमाशास्ते महत्त्वमधिकं परैः
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः
नकुलस्सहदेवश्च यमौ च गुरुवर्तिनौ
मद्वाहुबलतस्स्तब्धौ नित्यं पुरुषमानिनौ
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः
वैशम्पायनः-
एवंविधं बहु तदा विललाप वृकोदरः
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम्
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन्
दारुणं ह्यशिवं नादं शिवा दक्षिणतस्स्थिता
दीप्तायां दिशि वित्रस्ता रौति तस्याऽऽश्रमस्य ह
एकपक्षाक्षिचरणा नर्तका घोरदर्शना
रक्तं रुदन्ती ददृशे प्रत्यादित्यमपस्वनम्
प्रववौ चानिलो रूक्षश्चण्डश्शर्करकर्षणः
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति
मुहुर्मुहुः प्रस्फुरते दक्षिणश्च भुजस्तथा
हृदयं चरणश्चापि वामोऽस्य परितप्यते
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टस्समपद्यत
धर्मराजोऽपि मेधावी शङ्कमानो महद्भयम्
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम्
स प्रतस्थे महाबाहुर्धौम्येन सहितः प्रभुः
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम्
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति
स तस्य पदमुन्नीय तस्मादेवाऽऽश्रमात्प्रभुः
मृगयामास कौन्तेयो भीमसेनं महावने
स प्राचीं दिशमास्थाय महतो गजयूथपान्
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्
धावतस्तस्य वीरस्य मृगार्थं वातरंहसः
ऊरुवेगविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि
स गत्वा तैस्तथा चिह्नैर्ददर्श गिरिगह्वरे
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा