जनमेजयः-
कथं नागायुतप्राणो भीमो भीमपराक्रमः
भयमाहारयत्तीव्रं तस्मादजगरान्मुने
पौलस्त्यं योऽह्वयेद्युद्धे य धनदं बलदर्पितः
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम्
तं शंससि भयाविष्टमापन्नमरिसूदनम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
वैशम्पायनः-
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्
प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः
ददर्श तद्वनं रम्यं देवगन्धर्वपूजितम्
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा
देवर्षिसिद्धचरितानप्सरोगणसेविताम्
चकोरैरुपचक्रैश्च पक्षिभिर्जीवजीवकैः
कोकिलैर्भृङ्गराजैश्च तत्रतत्र विनादितान्
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः
स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसन्निभैः
सलिलैर्हिमसङ्काशैर्हंसकारण्डवायुतैः
वनानि देवदारूणां मेघानामिव वागुराः
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि
मृगयां परिधावन्स समेषु मरुधन्वसु
विध्यन्मृगाञ्शरैश्शुभ्रैश्चचार सुमहाबलः
स ददर्श महाकायं भुजङ्गं रोमहर्षणम्
गिरिदुर्गे समापन्नं कायेनाऽऽवृत्य कन्दरम्
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम्
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः
त्रासनं सर्वभूतानां कालान्तकयमोपमम्
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिवोच्छ्रितम्
स भीमं सहसाऽभ्येत्य पाण्डवं क्षुधितो भृशम्
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्
तेन संस्पृश्यमानस्य भीमसेनस्य वै तदा
सञ्ज्ञा मुमोह सहसा वरदानेन तस्य हि
दशनागसहस्राणि धारयन्ति हि यद्बलम्
तद्बलं भीमसेनस्य भूजयोर्न समं परम्
स तेजस्वी तथा तेन भुजगेन वशीकृतः
विम्फुरद्दशनो भीमो न शशाक विचेष्टितुम्
नागायुतसमप्राणस्सिंहस्कन्धो महाभुजः
गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे
न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम्