जनमेजयः-
तस्मिन्कृतास्त्रे रथिनां प्रधाने प्रत्यागते भवनाद्वृत्रहन्तुः
अतः परं किमकुर्वन्त पार्थास्समेत्य शूरेण धनञ्जयेन
वैशम्पायनः-
वनेषु तेष्वेव तदा नरेन्द्रास्सहार्जुनेनेन्द्रसमेन वीराः
तस्मिंश्च शैलप्रवरे सुरम्ये घनेश्वराक्रीडगता विजह्रुः
वेश्मानि तान्यप्रतिमानि पश्यन्क्रीडाश्च नानाद्रुमसन्निरुद्धाः
चचार धन्वी बहुधा नरेन्द्रस्सोऽस्त्रेषु यत्तस्सततं किरीटी
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः
न प्राणिनां ते स्पृहयन्ति राजञ्शिवश्च कालस्स बभूव तेषाम्
समेत्य पार्थेन यथैकरात्रमूषुस्समास्तत्र तथा चतस्रः
पूर्वाश्च षट् तत्र च पाण्डवानां शिवा बभूवुर्वसतां वनेषु
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य
यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च
भीमसेनः-
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च
इमे हि गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्
एकादशं वर्षमिदं वसामस्सुयोधनेनात्तसुखास्सुखार्हाः
तं वञ्चयित्वाऽसमशीलबुद्धिमज्ञातवासं सुखमाप्नुयामः
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि
समीपवासेन विमोहितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्
संवत्सरं तत्तु विहृत्य गूढं नराधमं तं सुखमुद्धरेम
निर्यात्य वैरं सफलं सुपुष्पं तस्मै नरेन्द्राधमपूरुषाय
सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज
स्वर्गोपमं शैलमिमं चरद्भिश्शक्यो विहन्तुं नरदेव शोकः
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु
तत्प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात्
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहेषु
तेजस्तवोग्रं न सहेत राजन्समेत्य साक्षादपि वज्रपाणिः
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता
यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ यथैव कृष्णस्सह यादवैस्तैः
तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे
त्वदर्थयोगप्रभवप्रधानाश्शमं करिष्याम परान्समेत्य
वैशम्पायनः-
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः
प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः
आमन्त्र्य वेश्मानि सरांसि नद्यस्सर्वाणि रक्षांसि स धर्मराजः
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः
समाप्तकर्मा सहितस्सुहृद्भिर्जित्वा सपत्नान्प्रतिलभ्य राज्यम्
शैलेन्द्र भूयस्तपसा धृतात्मा द्रष्टा तवास्मीति मतिं चकार
वृतस्स सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पुनर्निवृत्तः
उवाह चैनान्गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु
तान्प्रस्थितान्प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान्
स लोमशो दिवमेवोर्जितश्रीर्जगाम तेषां विजयं तथोक्त्वा
तेनानुशिष्टास्त्वार्ष्टिषेणेन चापि तीर्थानि रम्याणि तपोवनानि
महान्ति चान्यानि सरांसि पार्थास्सम्पश्यमानाः प्रययुर्नराग्र्याः
नगोत्तमं प्रस्रवणैरुपेतं सदिग्गजैः किन्नरपक्षिसङ्घैः
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम्
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम्
समुच्छ्रयान्पर्वतसन्निरोधान् गोष्ठान्गिरीणां गिरिगह्वराणि
बहुप्रकाराणि समीक्ष्य राजन्स्थलानि निम्नानि च तत्र तत्र
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि
आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः
वनानि रम्याणि सरांसि नद्यो गुहा गिरीणां गिरिगह्वराणि
एते निवासास्सततं बभूवुर्निशामुखं प्राप्य नरर्षभाणाम्
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम्
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्ते
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः
शशंसिरे विस्तरतः प्रवासं शिवं यथावद्वृषपर्वणस्ते
सुखोषितास्तत्र त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम्
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः नराग्र्याः
कुबेरकान्तां नलिनीं विशोकास्सम्पश्यमानास्सुरसिद्धजुष्टाम्
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुतास्सर्वनरप्रधानाः
ते रेमिरे नन्दनवासमेत्य द्विजर्षभा वीतभया यथावत्
ततः क्रमेणोपययुश्च वीरा यथागतेनैव पथा नराग्र्याः
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः
चीनांस्तुषारान्दरदान्विदर्भान् देशान्कुलिन्दस्य च भूरिरम्यान्
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः
श्रुत्वा च तान्पार्थिव पुत्रपौत्रान्प्राप्तान्सुबाहुर्विषयान्समग्रान्
प्रत्युद्ययौ प्रीतियुतस्तदानीं तं चाभ्यनन्दन्वृषभाः कुरूणाम्
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वैः
सहेन्द्रसेनैः परिचारमुख्यैः पौरोगवा ये च महानसस्थाः
सुखोषितास्तत्र त एकरात्रं सूतानुपादाय रथांश्च सर्वान्
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम्
तस्मिन्गिरौ प्रस्रवणोपपन्ने हिमोत्तरीयारुणपाण्डुवर्णे
विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथं प्रहृष्टाः
शिवेन यात्वा मृगयाप्रधानास्संवत्सरं तत्र वने विजह्रुः
तत्राऽऽससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम्
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः
अमोचयच्चैनमनन्ततेजा ग्राहेण संवेष्टितसर्वकायम्
ते द्वादशं वर्षमथोपयातं वने विहर्तुं कुरवः प्रयाताः
तस्माद्वनाच्चैत्ररथात्प्रहृष्टाश्श्रिया ज्वलन्तस्तपसा च युक्ताः
ततः प्रयाता मरुघन्वपार्श्वं तदा धनुर्वेदरतिप्रधानाः
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः
श्रुत्वैव तान्द्वैतवनं प्रविष्टान्निवासिनस्तत्र ततोऽभिजग्मुः
तपोदमाचारसमाधियुक्तास्तृणोदपात्रावरणाश्मकुट्टाः
प्लक्षाह्लराहीतकवेतसाश्च स्नुही बदर्यः खदिराश्शिरीषाः
बिल्वेङ्गुदाः पीलुशमीकरीरास्सरस्वतीतीररुहा बभूवुः
तां यक्षगन्धर्वमहर्षिकान्तामगाधभूतामिव देवतानाम्
सरस्वतीं प्रीतियुताश्चरन्तस्सुखं विजह्रुर्नरदेवपुत्राः