अर्जुनः-
ततो मामतिविश्वस्तं संरूढशरविक्षतम्
देवराजोऽनुगृह्येदं काले वचनमब्रवीत्
इन्द्रः-
दिव्यास्त्राणि च सर्वाणि त्वयि तिष्ठन्ति भारत
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन
भीष्मो द्रोणः कृपः कर्णश्शकुनिस्ससुयोधनः
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्
अर्जुनः-
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिस्सह
ततो मामब्रवीच्छक्रः प्रीतिमानमरैस्सह
इन्द्रः-
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते
अर्जुनः-
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत
उषितानि मया राजन्स्मरता द्यूतजं कलिम्
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि
युधिष्ठिरः-
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप
साक्षाद्दृष्टस्स्वयुद्धेन तोषितश्च त्वयाऽनघ
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्
पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः
अर्जुनः-
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः
निवातकवचा घोरा यैर्मया विनिपातिताः
वैशम्पायनः-
एवमागमनं तत्र कथयित्वा धनञ्जयः
भ्रातृभिस्सहितस्सर्वै रजनीं तामुवास ह