अर्जुनः-
निवर्तमानेन तदा महद्दृष्टं ततोऽपरम्
पुरं कामगमं दिव्यं पावकार्कसमप्रभम्
द्रुमै रत्नमयैश्चित्रैर्भास्वरैश्च पतत्रिभिः
पौलोमैः कालकेयैश्च नित्यहृष्टैर्दुरासदम्
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्
द्रुमैः पुष्पलोपेतैस्सर्वरत्नमयैर्वृतम्
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः
असुरैर्नित्यमुदितैश्शूलर्ष्टिमुसलायुधैः
चापमुद्गरहस्तैश्च स्रग्विभिस्सर्वतो वृतम्
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम्
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै
मातलिः-
पुलोमा नाम दैतेयी कालका च महासुरी
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम्
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः
रमणीयं पुरं चेदं खेचरं सुकृतप्रभम्
सर्वरत्नैस्समुदितं दुर्धर्षममरैरपि
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः
सर्वकामगुणोपेतं वीतशोकमनामयम्
ब्रह्मणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो
तदेतत्खेचरं दिव्यं चरत्यमरवर्जितम्
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः
हिरण्यपुरमित्येतत्ख्यायते नगरं महत्
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः
त एते मुदिता राजन्नवध्यास्सर्वदैवतैः
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः
सुरासुरैरवध्यानां दानवानां धनञ्जय
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा
अर्जुनः-
सुरासुरैरधृष्यांस्तानहं ज्ञात्वा महासुरान्
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः
उवाह मां ततश्शीघ्रं हिरण्यपुरमन्तिकात्
रथेन तेन दिव्येन हरियुक्तेन मातलिः
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः
ततो नालीकनाराचैर्भल्लैश्शक्त्यृष्टितोमरैः
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः
तानहं शस्त्रवर्षेण महता समवारयम्
अस्त्रैश्शस्त्रैर्महाराजन्विद्याबलमुपाश्रितः
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे
तेऽन्योन्यमभिसम्मूढाः पातयन्ति स्म दानवाः
तेषामेवं विमूढानामन्योन्यमभिधावताम्
शिरांसि विशिखैर्दीप्तैरहरं शतसङ्घशः
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः
खमुत्पेतुस्सनगरा मायामास्थाय दानवीम्
ततोऽहं शरवर्षेण महता प्रत्यवारयन्
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्
तत्पुरं खचरं दिव्यं कामगं दीप्ततेजसम्
दैतेयैर्वरदानेन धार्यते स्म यथासुखम्
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति
अमरावतिसङ्काशं पुरं कामगमाशुगम्
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां नराधिप
ततोऽहं शरजालेन दिव्यास्त्रघटितेन च
अगृह्णां सह दैतेयैस्तत्पुरं भरतर्षभ
विकीर्णं चाक्षयैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम्
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः
ततो मातलिरारुह्य पुरस्तान्निपतन्निव
महीमवातरत्क्षिप्रं रथेनाऽऽदित्यवर्चसा
ततो रथसहस्राणि षष्टिस्तेषां महात्मनाम्
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत
तान्यहं निशितैर्बाणैर्व्यधमं गृध्रवाजितैः
ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः
नेमे शक्ता मानुषेण युद्धेनेति विचिन्त्य वै
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम्
ततस्तानि सहस्राणि रथिनां चित्रयोधिनाम्
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः
विचित्रमुकुटापीडा विचित्रकवचध्वजाः
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन्
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन्
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि
व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम
ततोऽहं परमायत्तो मातलिं परिपृष्टवान्
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर
एतच्छ्रुत्वा तु राजेन्द्र सम्प्रहृष्टस्तमूचिवान्
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान्
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत्
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः
विचुक्रुशुर्महाराज स्वरेण महता मुहुः
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि
अस्माभिस्समरे भग्न इत्येवं सङ्घशस्तदा
ततोऽहं देवदेवाय रुद्रायाव्यक्तमूर्तये
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम्
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्
महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम्
लेलिहानैर्महानागैः कृतचिह्नममित्रहन्
भक्तानुकम्पिनं देवं नागयज्ञोपवीतिनम्
विचिन्त्याहं तदस्त्रं तु घोरं रौद्रं सनातनम्
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे
मुक्तवान्दानवेन्द्राणां पराभावाय भारत
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते
ऋक्षाणां महिषाणां च पन्नगानां गवां तथा
गजानां चमराणां च वृषभाणां च वाजिनाम्
ऋषभाणां वराहाणां मार्जाराणां तथैव च
ऋक्षाश्वगजवक्त्राणामुलूकानां तथैव च
मीनवायसरूपाणां नानावक्त्रप्रचारिणाम्
सालावृकाणां प्रेतानां मुरुण्डानां च सर्वशः
गृध्राणां गरुडानां च मकराणां तथैव च
पिशाचानां च यक्षाणां रक्षसां च सुरद्विषाम्
गुह्यकानां च सङ्ग्रामे नैर्ऋतानां तथैव च
सर्पास्य गजवक्त्राणामुलूकानां तथैव च
दीनवायसकर्माणां नानाशस्त्रासिपाणिनाम्
तथैव यातुधानानां गदामुद्गरधारिणाम्
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तदा
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः
अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः
अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्
निशाम्य परमं हर्षमगमद्देवसारथिः
तदसह्यं कृतं कर्म देवैरपि सुदुस्सहम्
दृष्ट्वा मां पूजयामास मातलिश्शक्रसारथिः
उचाच वचनं चेदं प्रीयमाणः कृताञ्जलिः
हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः
मातलिः-
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया
न ह्येतत्संयुगे कर्तुमपि शक्तस्सुरेश्वरः
ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्
त्वया विमथितं वीर स्ववीर्याच्च तपो बलात्
अर्जुनः-
विध्वस्ते तु पुरे तस्मिन्दानवेषु हतेषु च
विनदन्त्यः स्त्रियस्सर्वा निष्पेतुर्नगराद्बहिः
प्रकीर्णकेश्यो व्यथितास्सुदीनाः करुणस्वनाः
कुरर्य इव वाशन्त्यो दुःखिता वा मुहुर्मुहुः
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः
तच्छोकयुक्तमश्रीमद्दुःखदैन्यसमागमम्
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम्
गन्धर्वनगराकारं हृतनागमिव ह्रदम्
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम्
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्
देवराजस्य भवनं कृतकर्माणमाहवात्
हिरण्यपुरमारुह्य निहत्य च महासुरान्
निवातकवचांश्चैव ततोऽहं शक्रमागमम्
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्
सर्वं विश्रावयामास यथाभूतं महाद्युते
हिरण्यपुरघातं च मायानां च निवारणम्
निवातकवचानां च वधं सङ्ख्ये महौजसाम्
कालकेयवधं चैव अद्भुतं रोमहर्षणम्
तच्छ्रुत्वा भगवान्प्रीतस्सहस्राक्षः पुरन्दरः
मरुद्भिस्सहितश्श्रीमान्साधुसाध्वित्यथाब्रवीत्
परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्
ततस्स मां देवराजस्समाश्वास्य पुनः पुनः
अब्रवीद्विबुधैस्सार्धमिदं सुमधुरं वचः
इन्द्रः-
अतिदेवासुरं कर्म कृतमेव त्वया रणे
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय
असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्
अविषह्यो रणे हि त्वं देवदानवराक्षसैः
सयक्षासुरगन्धर्वैस्सपक्षिगणपन्नगैः
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः