अर्जुनः-
अदृश्यमानास्ते दैत्या योधयन्ति स्म मां युधि
अदृश्येनास्त्रवीर्येण तानप्यहमयोधयम्
गाण्डीवमुक्तैर्विशिखैस्सम्यगस्त्रैः प्रचोदितैः
अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन्
ततो निवातकवचा वध्यमाना मया युधि
संहृत्य मायां तरसा प्राविशन्पुरमात्मनः
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणान्युत
शतशस्स्म प्रदृश्यन्ते गात्राणि कवचानि च
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम्
उत्पत्य सहसा तस्थुरन्तरिक्षगतास्ततः
ततो निवातकवचा व्योम सञ्छाद्य केवलम्
अदृश्या ह्यभ्यवर्तन्त विसृजन्तश्शिलोच्चयान्
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथा
न्यगृह्णन्दानवा घोरा रथचक्रेण भारत
विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः
सर्वतो मामचिन्वन्त सरथं धरणीधरैः
पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः
स देशो यत्र वर्तामि गुहेव समपद्यत
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः
अगच्छं परमामार्तिं मातलिस्तदलक्षयत्
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्
मातलिः-
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय
अर्जुनः-
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्
देवराजस्य दयितं वज्रमस्त्रं नराधिप
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च
अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्शरान्
ततो मायाश्च तास्सर्वा निवातकवचांश्च तान्
ते वज्रचोदिता बाणा वज्रभूतास्समाविशन्
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले
अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम्
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः
समाच्छाद्यत देशस्स विकीर्णैरिव पर्वतैः
न हयानां क्षतिः काचिन्न रथस्य न मातलेः
मम चादृश्यत तदा तदद्भुतमिवाभवत्
मातलिः-
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते
हतेष्वसुरसङ्घेषु दारास्तेषां च सर्वशः
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः
अर्जुनः-
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्
त्रासयन्रथघोषेण निवातकवचस्त्रियः
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्
रथं च रविसङ्काशं प्राद्रवन्गणशस्स्त्रियः
ताभिराभरणैश्शब्दस्त्रासिताभिस्समीरितः
शिलानामिव शैलेषु पतन्तीनामभूत्तदा
वित्रस्ता दैत्यनार्यस्तास्स्वानि वेश्मान्यथाविशन्
बहुरत्नविचित्राणि शातकुम्भमयानि च
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्
विशिष्टं देवनगरादपृच्छं मातलिं ततः
इदमेवंविधं कस्माद्देवता न विशन्त्युत
पुरन्दरपुराद्धीदं विशिष्टमिव लक्षये
मातलिः-
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्
ततो निवातकवचैरितः प्रच्यावितास्सुराः
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्
इदं वृत्तं निवासाय देवेभ्यश्चाभयं युधि
ततश्शक्रेण भगवान्स्वयम्भूरभिचोदितः
धत्तवान्भगवानस्त्रमात्मनो हितकाम्यया
तत उक्तो भगवता दृष्टमात्रेण वासवः
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन्
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव
न हि शक्यास्सुरैर्हन्तुं य एते निहतास्त्वया
कालस्य परिणामेन ततस्त्वमिह भारत
एषामन्तकरः पार्थ त्वयाऽपि च कृतं तथा
दानवानां विनाशार्थं महास्त्राणां महद्बलम्
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्रेदमुत्तमम्
अर्जुनः-
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्
पुनर्मातलिना सार्धमगमं देवसद्म तत्