अर्जुनः-
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः
नागमात्रं महाघोरं तन्मां दृढमपीडयत्
तदहं वज्रसङ्काशैश्शरैरिन्द्रास्त्रचोदितैः
अचूर्णयं वेगवद्भिश्शतधैकैकमाहवे
चूर्ण्यमानेऽश्मवर्षे तु पावकस्समजायत
तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम्
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके
नभसः प्रच्युता धारास्तिग्मवीर्यास्सहस्रशः
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा
धाराणां च निपातेन वायोर्विष्फूर्जितेन च
गर्जितेन च मेघानां न प्राज्ञायत किञ्चन
धारा दिवि च सम्बाधा वसुधायां च सर्वशः
मोहयन्ति स्म मां तत्र निपतन्त्योऽनिशं भुवि
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्
हतेऽश्मवर्षे तु तदा जलवर्षे च शोषिते
मुमुचुर्दानवा मायामग्निं वायुं च मानद
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः
शैलेन च महास्त्रेण वायोर्वेगमधारयम्
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः
प्राकुर्वन्विविधां मायां यौगपद्येन भारत
ततो वर्षं प्रादुरासीत्सुमहद्रोमहर्षणम्
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम्
सा तु मायामयी वृष्टिः पीडयामास मां युधि
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः
तमसा संवृते लोके घोरेणाऽऽवरणेन च
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि
असकृच्चापि मां भीतः किं करिष्याव इत्यपि
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि
स च मां विगतज्ञानस्सन्त्रस्त इदमब्रवीत्
सुराणामसुराणां च सङ्ग्रामस्सुमहानभूत्
अमृतार्थे पुरा पार्थ स च दृष्टो मयाऽनघ
शम्बरस्य वधे चापि सङ्ग्रामस्सुमहानभूत्
सारथ्यं देवराजस्य तत्रापि कृतवानहम्
तथैव वृत्रस्य वधे सङ्गृहीता मया हयाः
वैरोचनेर्मया युद्धं दृष्टं चासीत्सुदारुणम्
एते मया महाघोरास्सङ्ग्रामाः पर्युपस्थिताः
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव
पितामहेन संहारः प्रजानां विहितो ध्रुवम्
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्
तस्य तद्वचनं श्रुत्वा संस्तभ्याऽऽत्मानमात्मना
मोहयन्दानवेन्द्राणामहं मायाबलं बलम्
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च
अस्त्रमाया च यैस्तेषां मायामेतां सुदारुणाम्
विनिहन्मि तमश्चोग्रं मा भैस्सूत स्थिरो भव
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप
मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम्
पीड्यमानासु मायासु तासु तास्वसुरेश्वराः
पुनर्बहुविधा मायाः प्राकुर्वन्नसुरेश्वराः
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः
व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे रोमहर्षणे
ततः पर्यपतन्नुग्रा निवातकवचा मयि
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्
वर्तमाने तथा युद्धे निवातकवचान्तके
नापश्यं सहसा सर्वान्दानवान्मायया वृतान्