अर्जुनः-
ततो निवातकवचास्सर्वे वेगेन भारत
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः
अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्
ततोऽपरे महावीर्याश्शूलपट्टसपाणयः
शूलानि च मुसुण्डीश्च मुमुचुर्दानवा मयि
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम्
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि
अन्योन्यमभिधावन्ति निवातकवचा युधि
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे
ते कृता विमुखास्सर्वे मत्प्रयुक्तैश्शिलाशितैः
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः
अथ मार्गान्बहूंस्तत्र विचेरुर्वातरंहसः
सुसंयता मातलिना प्रामथ्नन्त दितेस्सुतान्
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे
तदा मातलिना यन्त्रा व्यचरन्नेकवद्रथम्
तेषां चरणपातेन रथनेमिस्वनेन च
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः
गतासवस्तथा चान्ये दानवाः पाण्डवर्षभ
हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः
ते दिशो विदिशस्सर्वा प्रतिरुध्य प्रहारिणः
घ्नन्ति स्म विविधैश्शस्त्रैस्ततो मे व्यथितं मनः
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम्
अश्वांस्तथा वेगवतो यद्रथं नावधारयन्
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे
सायुधांश्चिच्छिदे राजञ्छतशोऽथ सहस्रशः
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्
प्रीतिमानभवद्राजन् मातलिश्शक्रसारथिः
वध्यमानास्ततस्तेन हयैस्तेन रथेन च
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे
स्पर्धमाना इवास्माभिर्निवातकवचा रणे
शरवर्षैर्महद्भिर्मां समन्तात् प्रत्यवारयन्
शरवेगैर्निहत्याहमस्त्रैश्शरविघातिभिः
ज्वलद्भिः परमैश्शीघ्रैस्तानविध्यं सहस्रशः
ततस्सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः
अपीडयन्मां सहिताश्शक्तिशूलासिवृष्टिभिः
ततोऽहमस्त्रं प्रायुञ्जं माधवं नाम भारत
दयितं देवराजस्य ब्रह्मदण्डसमं रणे
ततः खड्गांस्त्रिशूलांश्च तोमरांशच सहस्रशः
अस्त्रवीर्येण महता तैर्मुक्तानहमच्छिदम्
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः
प्रत्यविध्यमहं रोषाद्दढमुष्टिकृतैश्शरैः
गाण्डीवविततास्सङ्ख्ये यथा भ्रमरपङ्क्तयः
निष्पतन्ति तदा बाणास्तन्मातलिरपूजयत्
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः
वध्यमानास्ततस्ते तु निवातकवचाः पुनः
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः
ज्वलद्भिः परमैश्शीघ्रैस्तानविध्यं सहस्रशः
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्
प्रावृषीवाभिवृष्टानि शृङ्गाणीव धराभृताम्
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः
मद्वाणैर्वध्यमानास्ते समुद्विग्नास्स्म दानवाः
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः
ततो निवातकवचा मामयुध्यन्त मायया