अर्जुनः-
ततोऽहं स्तूयमानस्तु तत्र तत्र सुरर्षिभिः
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम्
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः
अदृश्यन्तोर्मयस्तत्र चलन्त इव पर्वताः
नावस्सहस्रशस्तत्र रत्नपूर्णास्समन्ततः
नभसीव विमानानि विचरन्त्यो विरेजिरे
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात्
तत्रैव मातलिस्तूर्णं निपात्य धरणीतले
दानवान्रथघोषेण तत्पुरं समुपाद्रवत्
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे
मन्वाना देवराजं मां संविग्ना दानवाऽभवन्
सर्वे सम्भ्रान्तमनसश्शरचापधरास्स्थिताः
तथा शूलासिपरशुगदामुसलपाणयः
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते
ततश्शङ्खमुपादाय देवदत्तं महास्वनम्
पुरमासुरमासाद्य प्राधमं तं शनैरहम्
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्
वित्रेसुश्च विलिल्युश्च भूतानि सुमहान्त्यपि
ततो निवातकवचास्सर्व एव समन्ततः
दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि
पट्टसैः करवालैश्च रथचक्रैश्च भारत
शतघ्नीभिर्मुसुण्डीभिः खड्गैश्चित्रैरलङ्कृतैः
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः
ततो वेगेन महता दानवा मामुपाद्रवन्
विमुञ्चन्तश्शितान् बाणाञ्शतशोऽथ सहस्रशः
ततो विचार्य बहुशो रथमार्गेषु तान्हयान्
प्राचोदयत्समे देशे मातलिर्भरतर्षभ
न तेषां तत्प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्
अन्वपद्यत्तदा कश्चित्तन्मेऽद्भुतमिवाभवत्
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन्
तेन शब्देन सहसा समुद्रे पर्वता इव
आप्लवन्त गतैस्सत्वैर्मत्स्याश्शतसहस्रशः
स सम्प्रहारस्तुमुलस्तेषां च मम भारत
अवर्तत महाघोरो निवातकवचान्तकः
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः
अस्तुवनृषयो वाग्भिर्यथेन्द्रं तारकामये