अर्जुनः-
ततस्तामवसं प्रीतो रजनीं तत्र भारत
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः
व्युषितो रजनीं तां च कृत्वा पौर्वाह्णिकीं क्रियाम्
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा
तस्यैवाहं पुरावृत्तं सर्वमेव न्यवेदयम्
भगवन्तं महादेवं समेतोऽस्मीति भारत
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः
ब्राह्मणः-
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्
समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह
अर्जुनः-
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः
अगच्छत्स यथाकामं ब्राह्मणस्सूर्यसन्निभः
अथापराह्णे तस्याह्नः प्रावात्पुण्यस्समीरणः
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
शैशिरस्य गिरेः पादे प्रादुरासीत्समन्ततः
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च
पुरस्सरा देवपतेर्जगुर्गीतानि सर्वशः
मरुतां च गणास्तत्र देवयानैरुपागमन्
महेन्द्रानुचरा ये च देवसद्मनिवासिनः
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैस्स्वलङ्कृतैः
शचीसहायस्तत्राऽऽयात्सह सर्वैस्सुरैस्तदा
एतस्मिन्नेव काले तु कुबेरो नरवाहनः
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्
वरुणं देवराजं च यथास्थानमवस्थितम्
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः
देवाः-
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान्
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम्
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः
अर्जुनः-
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्
प्रत्यगृह्णां महास्त्राणि स्यस्त्राणि विविधानि च
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत
अथ देवा ययुस्सर्वे यथागतमरिन्दम
मघवानपि मां देवो रथमारोप्य सुप्रभम्
उवाच वाक्यं भगवान्स्मयन्निव महायशाः
इन्द्रः-
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय
अतः परं वै नाहं त्वां दर्शये भरतर्षभ
त्वया हि पुण्यतीर्थेषु समाक्रान्तमिहासकृत्
तपश्चैवं पुरा तप्तं स्वर्गं गन्तासि पाण्डव
भूयश्चैवाभितप्तव्यं तपश्चरणमुत्तमम्
दुश्चरं घोरमस्त्राणां तपोबलकरं तव
स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति
विदितस्त्वं हि देवानां ऋषीणां च महात्मनाम्
इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम्
अर्जुनः-
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम
आचार्यं वरये त्वाऽहमस्त्रार्थं त्रिदशेश्वर
इन्द्रः-
क्रूरकर्माऽस्त्रवित्तात भविष्यसि परन्तप
यदर्थमस्त्राणीप्सुस्त्वं तं कामं समवाप्नुहि
अर्जुनः-
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्
मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातकम्
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव
इन्द्रः-
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय
ममाऽऽत्मजस्य वचनं सूपपन्नमिदं तव
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात्
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च
मदीयानि च जानीहि सर्वास्त्राणि समाप्स्यसि
अर्जुनः-
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्
दिव्यं मायामयं पुण्यं युक्तं मातलिना नृप
लोकपालेषु यातेषु मामुवाचाथ मातलिः
मातलिः-
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युतिः
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज
अर्जुनः-
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्
चोदयामास स हयान्मनोमारुतरंहसः
मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः
अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः
तत्राभ्रान्तं रथे राजन्विस्मितश्चेदमब्रवीत्
मातलिः-
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे
यदास्थितो रथं दिव्यं पदान्न चलितः पदम्
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः
विचलन्प्रथमोत्पाते हयानां भरतर्षभ
त्वं पुनस्स्थित एवात्र रथे भ्रान्ते कुरूद्वह
अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे
अर्जुनः-
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्
दर्शयामास मे राजन्विमानानि च भारत
नन्दनादीनि देवानां वनानि बहुलान्युत
दर्शयामास मे प्रीत्या मातलिश्शक्रसारथिः
ततश्शक्रस्य भवनमपश्यममरावतीम्
दिव्यैः कमलषण्डैश्च वृक्षैरन्यैरलङ्कृताम्
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः
रजःपङ्को न च तमस्तत्रास्ति न जरा नृप
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते
दिवौकसां महाराज न च ग्लानिररिन्दम
न क्रोधलोभौ तत्रास्तामशुभं वा विशां पते
नित्यं तुष्टाश्च हृष्टाश्च प्राणिनस्सुरवेश्मनि
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः
शीतस्तत्र ववौ वायुस्सुगन्धो वीजते शुभः
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः
विमानयायिनस्सर्वे दृश्यन्ते बहवोऽमराः
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम्
ते मां वीर्येण यशसा तेजसा च बलेन च
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामे विजयेन च
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः
ददावर्धासनं प्रीतश्शक्रो मे ददतां वरः
बहुमानाच्च गात्राणि पस्पर्श मम वासवः
तत्राहं देवगन्धर्वैस्सहितो भूरिदक्षिणः
अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा
स च गान्धर्वमखिलं ग्राहयामास मां नृप
तत्राहमवसं राजन्गृहीतास्त्रस्सुपूजितः
सुखं शक्रस्य भवने सर्वकामसमन्वितः
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्
पश्यंश्चाप्सरसश्श्रेष्ठा नृत्यमानाः परन्तप
तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः
एवं मे वसतो राजन्नेष कालोऽत्यगादिति
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्
इन्द्रः-
न त्वमद्य युधा जेतुं शक्यस्सुरगणैरपि
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा
अजेयस्त्वं हि सङ्ग्रामे सर्वैरपि सुरासुरैः
अर्जुनः-
इन्द्रः-
अथाब्रवीत्पुनर्देवस्सम्प्रहृष्टतनूरुहः
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति
अप्रमत्तस्सदा दक्षस्सत्यवादी जितेन्द्रियः
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः
तव गुर्वर्थकालोऽयं समुत्पन्नः परन्तप
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्
अर्जुनः-
ततोऽहमब्रवं राजन्देवराजमिदं वचः
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्
इन्द्रः-
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन
निवातकवचा नाम दानवा मम शत्रवः
समुद्रकुक्षिमासाद्य दुर्गे प्रतिवसन्त्युत
तिस्रः कोट्यस्समाख्यातास्तुल्यरूपबलप्रभाः
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति
अर्जुनः-
ततो मातलिसंयुक्तं मयूरसमरोमभिः
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्
ततः प्रायामहं तेन स्यन्दनेन विराजता
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा
ततो देवास्सर्व एव तेन घोषेण बोधिताः
मन्वाना देवराजं मां समाजग्मुर्विशां पते
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन
तानब्रुवं तथाभूतानिदं कर्ताऽस्मि संयुगे
निवातकवचानां तु प्रस्थितं मां वधैषिणम्
निबोधत महाभागाश्शिवं चाशास्त मेऽनघाः
ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम्
देवाः-
रथेनानेन मघवा जितवाञ्शम्बरं युधि
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि
रथेनानेन दैत्यानां जितवान्मघवा युधि
त्वमप्यनेन कौन्तेय निवातकवचान्रणे
विजेता युधि विक्रम्य पुरेव मघवा वशी
अयं च शङ्खप्रवरो येन जेतासि दानवान्
अनेन विजिता लोकाश्शक्रेणापि महात्मना
अर्जुनः-
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः
स शङ्खी कवची वाणी प्रगृहीतशरासनः
दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया