वैशम्पायनः-
यथागतं गते शक्रे भ्रातृभिस्सह सङ्गतः
कृष्णया चापि बीभत्सुर्धर्मराजमपूजयत्
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम्
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्
युधिष्ठिरः-
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत्
यथैवास्त्राण्यवाप्तानि यथा चाराधिताश्च ते
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिन्दम
कृतप्रियस्तथाऽस्मीति तस्य ते किं प्रियं कृतम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते
यथा तुष्टो महादेवस्सुरराजश्च तेऽनघ
यच्चापि वज्रपाणेस्तु कृतं प्रियमरिन्दम
एतदाख्याहि मे सर्वमखिलेन धनञ्जय
अर्जुनः-
शृणु त्वं हि महाराज विधिना येन दृष्टवान्
शतक्रतुमहं देवं भगवन्तं च शङ्करम्
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन
भवता च समादिष्टस्तपसे प्रस्थितो वनम्
भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे
तस्मै चापि तथा सर्वमब्रुवं कुरुनन्दन
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि
ततो मामब्रवीत्प्रीतस्तपस्तप्यं हि भारत
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम्
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्
तपस्तेपे महाराज मासं मूलफलाशनः
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा
न च मे हीयते प्राणस्तदद्भुतमिवाभवत्
चतुर्थे मास्यतिक्रान्ते प्रथमे दिवसे गते
वराहसंस्थितं भूतं मत्समीपं समागमत्
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः
अनु तस्यापरं भूतं महत्कैरातमास्थितम्
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा
ततोऽहं धनुरादाय तदक्षय्यौ महेषुधी
अताडयं शरेणाथ तद्भूतं रोमहर्षणम्
युगपत्स किरातश्च विकृष्य सुमहद्धनुः
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम्
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव
सङ्घर्षवान्महाकायस्ततो मामभ्यधावत
ततो गिरिरिवात्यर्थमावृणोन्मां महाशरैः
तं चाहं शरवर्षेण महता समवाकिरम्
ततश्शरैर्दीप्तमुखैर्नागैरिव विषोल्बणैः
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्
तस्य तच्छतधा रूपमभवच्च सहस्रधा
तानि चास्य शरीराणि शरैरहमवाकिरम्
पुनस्तानि शरीराणि एकीभूतानि भारत
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः
अणुर्बृहच्छिरा भूत्वा महांश्चाणुशिरास्ततः
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि
यदाऽभिभवितुं बाणैर्नैव शक्नोमि तं रणे
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ
न चैनमशकं वोढुं तदद्भुतमिवाभवत्
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत्
तत्रापि च महाराज सविशेषमहं ततः
अस्त्रपूगेन महता रणे भूतमवाकिरम्
स्थूणाकर्णमथो जालं शरवर्षं शरोल्बणम्
शैलास्त्रमश्मवर्षं तु समास्थायाहमर्दयम्
जग्राह प्रहसंस्तानि सर्वाण्यस्त्राणि भारत
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रं महदादिशम्
ततः प्रज्वलितैर्बाणैस्सर्वतश्चोपचीयत
उपचीयमानश्च तदा सहास्त्रेणाभ्यवर्धत
ततस्सन्तापितो लोको मत्प्रसूतेन तेजसा
क्षणेन हि दिशः खं च सर्वतोऽभिविराजितम्
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्
ब्रह्मास्त्रे निहते राजन्भयं मां महदाविशत्
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्
एतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेष्वपि
मम तस्य च भूतस्य बाहुयुद्धमवर्तत
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ
अपातयच्च मां भूतमहं चापातयं महीम्
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः
दिव्यं चैव महाराज वसानोऽद्भुतमम्बरम्
हित्वा मृगयुरूपं तद्भगवांस्त्रिदशेश्वरः
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः
सोऽदृश्यत ततस्साक्षाद्भगवान्गोवृषध्वजः
धनुर्गृह्य तदा पाणौ बहुरूपः पिनाकधृत्
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत्
श्रीमहेश्वरः-
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते
यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम्
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्
अर्जुनः-
ततः प्राञ्जलिरेवाहमस्त्रेषु कृतमानसः
प्रणम्य शिरसा शर्वं ततो वचनमाददे
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम्
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीतस्सोऽस्त्रं पाशुपतं प्रभुः
उवाच च महादेवो दत्वा मेऽस्त्रं सनातनम्
श्रीमहेश्वरः-
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन
पीड्यमानेन बलवत्प्रयोज्यं स्याद्धनञ्जय
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः
अर्जुनः-
ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे
उत्सादनममित्राणां परसैन्यनिकर्तनम्
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्
पश्यतश्चैव मे देवस्तत्रैवान्तरधीयत